________________
यदुदयाजन्तुशरीराण्यनुष्णप्रकाशकरूपमुद्योतं कुर्वन्ति यथा यतिदेवोत्तरवैक्रियचन्द्रनक्षत्रतारविमानरनौषधयस्तदु-18 द्योतनाम, तथा विहायसा गतिः-गमनं विहायोगतिः, ननु सर्वगतत्वात् विहायसस्ततोऽन्यत्र गतिर्न सम्भवतीति किमर्थ विशेषणं ?, व्यवच्छेद्याभावात् , सत्यमेतत् , किन्तु यदि गतिरेवोच्यते ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्ती-12 ति पौनरुत्याशङ्का स्यात् , अतस्तव्यवच्छेदार्थ विहायसा गतिः, न तु नारकादिपर्यायपरिणतिरूपति विहायोगतिः, सा द्विविधा-प्रशस्ता अप्रशस्ता च, तत्र प्रशस्ता हंसगजवृषभादीनां अप्रशस्ता खरोष्ट्रमहिषादीनां, तद्विपाकवेद्यं विहायोगतिनामकर्म द्विधा-प्रशस्त विहायोगतिनाम अप्रशस्तविहायोगतिनाम चेति, तथा त्रसन्ति-उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरमिति त्रसा-द्वीन्द्रियादयस्तत्पर्यायपरिणतिवेद्यं नामकर्मापि त्रसनाम, तथा यदुदयादुष्णाद्यभितापेऽपि तत्स्थानपरिहारासमर्थाः पृथिव्यपतेजोवायुवनस्पतयः स्थावरा जायन्ते तत् स्थावरनाम, तथा बादरनाम यदुदयाजीवा बादरा भवन्ति, बादरत्वं परिणामविशेषः, यद्वशात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुह्यत्वाभावेऽपि बहूनां समुदाये चक्षुषा ग्रहणं भवति, तद्विपरीतं सूक्ष्मनाम, यदुदयावहूनामपि समुदितानां जन्तुशरीराणां चक्षुग्राह्यता न भवति, उक्तं च श्रावकप्रज्ञप्तिमूलटीकायां-"सूक्ष्मनाम यदुदयात् सूक्ष्मो भवति, अत्यन्तसूक्ष्मोऽतीन्द्रिय इत्यर्थः" इति, पर्याप्तकनाम यदुदयात् खयोग्यपर्याप्तिनिवर्तनसमर्थो भवति तत्पर्याप्तिनाम-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः,
eceaeeeeeeeeeeeeeeeeeeee
dain Education
entonal
For Personal & Private Use Only
www.jainelibrary.org