________________
प्रज्ञापना
याः मलय० वृत्ती. ॥४७५ ॥
'अंतराए णं भंते ! कम्मे कइविहे' इत्यादि, तत्र यदुदयवशात् सति विभवे समागते च गुणवति पात्रे दत्तमस्मै महाफलमिति जानन्नपि दातुं नोत्सहते तद्दानान्तरायं, तथा यदुदयवशाद्दानगुणेन प्रसिद्धादपि दातुर्गृहे विद्यमानमपि देयमर्थजातं याच्ञाकुशलोऽपि गुणवानपि याचको न लभते तल्लाभान्तरायं, तथा यदुदयवशात् सत्यपि विशि|ष्टाहारादिसम्भवेऽसति च प्रत्याख्यानपरिणामे वैराग्ये वा केवलकार्पण्यान्नोत्सहते भोक्तुं तद्भोगान्तरायमेवमुपभोगान्तरायमपि भावनीयं, नवरं भोगोपभोगयोरयं विशेषः - सकृद् भुज्यते इति भोगः - आहारमाल्यादि, पुनः पुनर्भुज्यते इत्युपभोगो-वस्त्रालङ्कारादि, उक्तं च- "सह भुज्जइत्ति भोगो सो पुण आहारपुप्फमाईओ । उपभोगो उ पुणो पुण उवभुज्जइ वत्थविलयाइ ॥ १ ॥” [ सकृद्भुज्यते इति भोगः स पुनराहारपुष्पादिकः । उपभोगस्तु पुनः पुनरुपभुज्यते वस्त्रवनितादिः ॥ १ ॥ ] तथा यदुदयात् सत्यपि नीरुजि शरीरे यौवनिकायामपि वर्त्तमानोऽल्पप्राणो भवति यद्वा बलवत्यपि शरीरे साध्येऽपि प्रयोजने हीनसत्त्वतया न प्रवर्त्तते तद्वीर्यान्तरायं, उक्तो मूलोत्तरप्रकृतिविभागः, सम्प्रति उत्तरप्रकृतीनां जघन्योत्कृष्टस्थितिप्रतिपादनं चिकीर्षुः प्रथमतो ज्ञानावरणीय स्य पञ्चप्रकारस्यापि विषये प्रश्नसूत्रमाह
Jain Education International
वरणअसणं ते! कम्मस्स केवतितं कालं ठिती पं० १, गो० ! जहण्णेणं अंतोमुहुत्तं उकोसेणं तीसं सागरोवमकोडाकोडीत तिणि य वाससहस्साई अवाहा, अबाहूणिया कम्मठिती कम्मनिसेगो, निद्दापंचगस्स णं भंते! कम्मस्स
For Personal & Private Use Only
२३ कर्मप्रकृतिपदं
॥४७५॥
www.jainelibrary.org