________________
IS माणमसङ्ख्येयाः पुद्गलपरावर्तास्ततो यावन्तोऽसङ्ख्येयेषु पुद्गलपरावर्तेषु समयास्तैरभ्यस्ता एकसमयोवृत्ता जीवा यावन्तो |
भवन्ति तावत्परिमाणमागतं वनस्पतीनां, ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपनं, प्रतिनियतपरिमाणत्वादेव च गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात्, आह च-"कायद्विइकालेणं तेसिमसंखेजयावहारेणं । निलेवणमावन्नं सिद्धीवि य सवभवाणं ॥१॥ पइसमयमसंखेजा जेणुवटुंति तो तदन्भत्था । कायटिइऍ समया वणस्सईणं च परिमाणं ॥२॥ [कायस्थितिकालेन तेषामसंख्येयकापहारेण । निर्लेपनमापन्नं सिद्धिरपि च सर्वभव्यानां ॥१॥ प्रतिसमयमसंख्येया येनोद्वर्त्तन्ते ततस्तदभ्यस्ताः। कायस्थितेः समयाः वनस्पतीनां च परिमाणं ॥२॥] न चैतदस्ति, वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धेर्मोक्षपथाव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात् , उच्यते, इह द्विविधा जीवाः-सांव्यवहारिका असांव्यवहारिकाश्चेति, तत्र ये निगोदावस्थात उद्धृत्त्य पृथिवीकायिकादिभेदेषु वर्तन्ते ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति व्यवहारिका उच्यन्ते, ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथापि ते सांव्यवहारिका एव, संव्यवहारे पतितत्वात् ,
ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसांव्यवहारिकाः, कथमे४ तदवसीयते ? द्विविधाः जीवाः सांव्यवहारिकाः असांव्यवहारिकाश्चेति, उच्यते, युक्तिवशात्, इह प्रत्युत्पन्नवन
720/292029999909202
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org