________________
प्रज्ञापनायाः मलय० वृत्ती.
१८कायस्थितिपदं
॥३७९॥
teeeeeeeeeeeeeeees
तिसूत्राणि सुगमानि, अन्यत्रापि तदर्थस्य प्रतीतत्वात् , तथा चोक्तं-'असंखोसप्पिणिओसप्पिणीओ एगिंदियाण उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोद्धबा ॥१॥ [असंख्या उत्सर्पिण्यवसर्पिण्य एकेन्द्रियाणां चतुण । ता एवानन्ता वनस्पती बोद्धव्याः ॥१॥] ननु यदि वनस्पतिकालप्रमाणं असङ्ख्येयाः पुद्गलपरावर्त्तास्ततो यद्गीयते सिद्धान्ते-मरुदेवाजीवो यावजीवभावं वनस्पतिरासीदिति, तत्कथं स्यात् ?, कथं वा वनस्पतीनामना|दित्वं, प्रतिनियतकालप्रमाणतया वनस्पतिभावस्थानादित्वविरोधात्, तथाहि-असङ्ख्येयाः पुदलपरावर्तास्तेषामवस्थानमानं, तत एतावति कालेऽतिक्रान्ते नियमात् सर्वेऽपि कायपरावर्त कुर्वते, यथा खस्थितिकालान्ते सुरादयः, उक्तं च-"जइ पुग्गलपरियट्टा संखाईया वणस्सईकालो । तो अचंतवणस्सईणमणाइयत्तमहेतूओ ॥१॥ न य मरुदेवाजीवो जावजीवं वणस्सई आसी। जमसंखेजा पुग्गलपरियट्टा तत्थऽवत्थाणं ॥२॥ कालेणेवइएणं जम्हा | कुवंति कायपलहूं । सवेवि वणस्सइणो ठिइकालंते जह सुराई ॥३॥ [ यदि पुद्गलपरावर्त्ताः संख्यातीता वनस्प-18 |तिकालः । तदाऽऽत्यन्तवनस्पतीनामनादित्वमहेतुकं ॥ १॥ न च मरुदेवीजीवो यावजीवं वनस्पतिरासीत् । यदसंख्ययाः पुद्गलपरावर्तास्तत्रावस्थानं ॥२॥ कालेनैतावता यस्मात् कुर्वन्ति कायपरावर्त । सर्वेऽपि वनस्पतयः स्थितिकालान्ते यथा सुराद्याः ॥॥] किं च-एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धं तदपीदानी प्रसक्तं, कथमिति चेद् ?, उच्यते, इह प्रतिसमयमसङ्ख्यया वनस्पतिभ्यो जीवा उद्वर्तन्ते, वनस्पतीनां च कायस्थितिपरि
॥३७९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org