SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया मलय. वृत्त. कृतिपदं ॥४७२॥ eeeeeeeee तद्यथा-वज्रर्षभनाराचं ऋषभनाराचं नाराचं अर्द्धनाराचं कीलिका सेवा च, तत्र वज्र-कीलिका ऋषभः-परि| वेष्टनपट्टः नाराचं-उभयतो मर्कटवन्धः, उक्तं च-"रिसहो य होइ पट्टो वजं पुण कीलिया मुणेयवा । उभओ मक्कडबंधो नारायं तं वियाणाहि ॥१॥ऋषभश्च भवति पट्टो वज्रं पुनः कीलिका ज्ञातव्या। उभयतो मर्कटबन्धो ४ यस्तं नाराचं विजानीहि ॥१॥] ततश्च द्वयोरस्भोरुभयतो मर्कटबन्धनबद्धयोः पट्टाकृतिना तृतीयेनास्ना परिवे-18 ष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वर्षभनाराचसंहननं, यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं, यत्र त्वस्थ्नां मर्कटबन्ध एव केवलो भवति तत्संहननं नाराचं, यत्र त्वेकपार्थेन। मर्कट बन्धो द्वितीयपार्थे च कीलिका तदर्द्धनाराचसंहननं, यत्रास्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्संहननं कीलिकाख्यं, यत्र पुनः परस्परपर्यन्तमात्रसंस्पर्शलक्षणां सेवामागतानि अस्थीनि नित्यमेव स्नेहाभ्यङ्गादिरूपां परि-1 शीलनामाकाङ्क्षन्ति तत्सेवार्तसंहननं, एतन्निबन्धनं संहनननामापि षोढा, तद्यथा-वज्रर्षभनाराचसंहनननाम ऋषभ-12 नाराचनाम नाराचनाम अर्द्धनाराचनाम कीलिकानाम सेवार्तनाम, तत्र यदुदयात् वज्रर्षभनाराचसंहननं भवति तत् वज्रर्षभनाराचसंहनननाम, एवं शेषसंहनननामस्खपि भावनीयं तथा संस्थान-आकारविशेषस्तेष्येव गृहीतसङ्घातितबद्धेषु औदारिकादिषु पुद्गलेषु संस्थानविशेषो यस्य कर्मण उदयाद भवति तत्संस्थानं, एतच षोढा, तद्यथा-समचतुरस्रसंस्थाननाम न्यग्रोधपरिमण्डलसंस्थाननाम सादिसंस्थाननाम वामनसंस्थाननाम कुब्जसंस्थाननाम हुण्डसंस्थान ॥४७२॥ Jain Education Lonal For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy