SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ नाम च, तत्र यदुदयादसुमतां समचतुरस्रसंस्थानमुपजायते तत्समचतुरस्रसंस्थाननाम, यदुदयात्तु न्यग्रोधपरिमण्डलं संस्थानं तन्यग्रोधपरिमण्डलसंस्थाननाम, एवं शेषाण्यपि वाच्यानि, तथा वर्ण्यते-अलयिते शरीरमनेनेति वर्णः, स च पञ्चप्रकारः श्वेतपीतरक्तनीलकृष्णभेदात् , तन्निबन्धनं नामापि पञ्चधा, तद्यथा-श्वेतवर्णनाम पीतवर्णनाम रक्तवर्णनाम नीलवर्णनाम कृष्णवर्णनाम, तत्र यदुदयाजन्तुशरीरेषु श्वेतवर्णप्रादुर्भावो यथा बिशकण्ठिकानां तत् श्वेतवर्णनाम, एवं शेषवर्णनामान्यपि भावनीयानि, तथा 'गन्ध अईने' गन्ध्यते-आघ्रायते इति गन्धः, स द्विधा-सुरभिगन्धो दुरभिगन्धश्च, तन्निबन्धनं गन्धनामापि द्विधा, तद्यथा-सुरभिगन्धनाम दुरभिगन्धनाम च, तत्र यदुदयाजन्तुशरीरेषु सुरभिगन्ध उपजायते यथा शतपत्रमालतीकुसुमादीनां तत्सुरभिगन्धनाम, यदुदयाद् दुरKI भिगन्धः शरीरेषूपजायते यथा लशुनादीनां तत् दुरभिगन्धनाम, तथा 'रस आखादनस्नेहनयोः' रस्यते आखाद्यते इति रसः, स पञ्चधा, तिक्तकटुकषायाम्लमधुरभेदात् , तन्निबन्धनं रसनामापि पञ्चधा, तद्यथा-तिक्तनाम कटुनाम कपायनाम अम्लनाम मधुरनाम, तत्र यदुदयात् जन्तु शरीरेषु तिक्तो रसो भवति यथा मरिचादीनां तत्तिक्तरसनाम, एवं शेषाण्यपि रसनामानि भावनीयानि, तथा 'स्पृश संस्पर्श' स्पृश्यते इति स्पर्शः, 'अकर्तरी ति घञ्प्रत्ययः, स च कर्कशमृदुल घुगुरुस्निग्धरूक्षशीतोष्णभेदादष्टप्रकारः, तन्निवन्धनं स्पर्शनांमाप्यष्टप्रकारं, तत्र यदुदयाजन्तु-|| शरीरेषु कर्कशः स्पर्शो भवति यथा पाषाणविशेषादीनां तत्कर्कशस्पर्शनाम, एवं शेषाण्यपि स्पर्शनामानि भावनी 20702020200402028202002020 Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy