________________
बावदूकः सिद्धान्तबाहुल्यमात्मनः ख्यापयन्नेवं प्रललाप "सुत्ते सत्तिविसेसो संघयणमिट्ठिनिच्चओ'त्ति इति सोऽपाकीर्णो द्रष्टव्यः । साक्षा। दत्रैव सूत्रेऽस्थिनिचयात्मकस्य संहननस्याभिधानात् । अस्थ्यभावे संहननप्रतिषेधात् इति ( जीवाभिगमसू० ३२) एवमेव त्रैलोक्यदीपिकावृत्तावप्युल्लेखितं । तत्त्वं पुनः कलहंसा जानन्ति" ॥ अत्र नैवं वाच्यं यदुतोपसर्जनानुपसर्जनकृत एव विशेषो यतः श्रीमद्भिहरिभद्रसूरिपादैरपि आवश्यकबृहद्वृत्तौ "इह चेत्थम्भूतास्थिसंचयोपमितः शक्तिविशेषः संहननमुच्यते न त्वस्थिसंचय एव, देवानामस्थिरहितानामपि प्रथमसंहननयुक्तत्वात्" इति वचनेन शक्तिविशेषरूपस्यैव तस्याङ्गीकारादिति, आदौ तावत् क एष तावदश्चेत् गणनां विबुधेषु यो मुख्यं सूर्य ज्योतिरिङ्गणमाख्याय ज्योतिरिङ्गणमेव ज्योतिष्पतितया व्याहरेत् ?, नैव चेत् कश्चित् कथमिव व्याकृतं सूत्रेऽस्थिनिचयस्य संहननवाच्यतानिषेधाय 'सुत्ते सत्तिविसेसो' इत्यादि, भवदर्शितोक्तावपि अस्थिनिचयस्यैव संहननवाच्यता स्पष्टैव, यत उदितं 'इह चेत्यादि' अन्यच्चाभियुक्त-17 मतं तु केवलमेवास्थिनिचयं संहननशब्दवाच्यतयाऽपेक्षितमपाकुर्यात् न तु शास्त्रसिद्धं संहननस्यास्थिवाच्यतापक्षं, तथा च देवानामाद्यसंहननिता शक्तिविशेषापेक्षिणी एकेन्द्रियाणामन्त्यसंहननितौदारिकशरीरसत्ताऽपेक्षिणीत्येवं भवत्यौपचारिकी नतु अस्थिनिचयस्यौपचारिकत्वं संहननशब्दवाच्यतायां लेशतोऽपि, ततो युक्तमेवोक्तं श्रीमद्भिष्टीकाकृद्भिर्मलयगिरिसूरिचरणैरुररीकृत्य जिनवल्लभगणिसत्कं 'सुत्ते सत्तिविसेसो' इति वचनं 'इत्यलमुत्सूत्रप्ररूपकविस्पन्दितेषु' इत्येवं कुमार्गगमृगसिंहनादीयं वचनं, एवं च 'साइणा परिनिव्वुडे' इति वचनस्य कल्याणकपरतया व्याख्यानं गर्भापहारस्य षष्ठकल्याणकतया व्यक्तीकृतिश्च तस्यैव मुखमलङ्कुर्वाणा शोभते न सूत्रानुसारिणां श्रीमद्हरिभद्राचार्याभयदेवसूरिव्याख्यातवीरवरश्रीमद्वर्धमानस्वामिकल्याणपञ्चकवादिनामित्यलं चसूर्या ।
Jain Education memonal
For Personal & Private Use Only
www.jainelibrary.org