SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाश्व सेवार्तसंहननस्य तदादारिकशरीरसंबंधमात्रमपेक्ष्य द्रष्टव्यं, निर्जराणामपि चक्रवर्तिभ्योऽप्यत्यन्तमहती शक्तिः सा च प्रथमसंहननविषया 8. |२३कर्मप्रया: मल इति । न चैतत्प्रथकृद्भिः सूत्रे शक्तिविशेष(षः) संहननमुक्तं, वृत्तिकृता तु तदभिप्रायः प्रकटीकृतः, तत् किमर्थ भवद्भिः समालोचनीयमुच्यत । यवृत्ती. इति वाच्यं, ग्रंथकृद्भिस्तु “सुत्ते सत्तिविसेसो" इत्यनेन सूत्रे शक्तिविशेष(षः) संहननं संस्थापितं, वृत्तिकारेणापि तदेवातिदृढीकृतं, न त्वौप-11 कृतिपदं चारिकमुक्तं, ननूपचारोऽपि सद्वस्तुन एव क्रियते, नत्वसद्वस्तुन इति चेत् , सत्यं, परम्-"अतस्मिन् तद्ध्यवसायः उपचारः” इति वचनात् ॥४७॥ उपचारोऽप्यसत्येव सद्वस्तुनो न तु सद्वस्तुनि सद्वस्तुनः । अपि च सूत्रे शक्तिविशेषः संहननं स्यात् तर्हि जीवाभिगमसूत्रे कथं देवनारका असंहननाः प्रोक्ताः, तथा च तद्न्थ:-"सुरनेरइया छण्हं संघयणाणं असंघयणा" इति, पुनः तत्रैव हेतुमद्भावेनोक्तं-'नेवट्ठी नेव सिरा नेव ण्हारू नेव संघयणमट्ठी'ति । किं च सूत्रे शक्तिविशेषः संहननं तर्हि गर्भजनरतिरश्चामपि ग्रंथकृदभिप्रायेण सूत्रे शक्तिविशेषः संहननमुक्तं स्यात् ; तच्च कुत्रचिदागमे नोपलभ्यते इति, एतन्न स्वमनीषिकाया विजूंभितं, किं तूत्पत्तिविनाशादिजीवनापूर्णभवाब्धिनिमज्जतूसत्योद्धरणपोतायमानैः श्रीमन्मलयगिरिसूरिपादैः जीवाभिगमायुपांगवृत्तिषु तथैवोल्लेखः कृतः। तद्ग्रंथश्चायम्-"अस्थिनिचयात्मकं च संहननमतोऽस्थ्याद्यभावादसंहननानि शरीराणि, इयमत्र भावना-इह तत्त्ववृत्त्या संहननमस्थिनिचयात्मकं, यत्तु प्रागेकेन्द्रियाणां सेवार्तसंहननमभ्यधायि तदौदारिकशरीरसंबंधमात्रमपेक्ष्यौपचारिकं, देवा अपि यदन्यत्र प्रज्ञापनादौ वर्षभनाराचसंहननिनः उच्यन्ते तेऽपि गौणवृत्त्या, तथाहि-इह यादृशी मनुष्यलोके चक्रवर्त्यादेविशिष्टवर्षभनाराचसंहननिनः सकलशेषमनुष्यजनासाधारणी शक्ति:-'दो सोला बत्तीसा सबबलेणं तु संकलनिबद्ध'मित्यादिका, ततोऽप्यधिकतरा देवानां पर्वतोत्पाटनादिविषया श्रूयते न च शरीरपरिक्लेश इति तेऽपि वर्षभनाराच ॥४७॥ IS संहननिनः उक्ताः, न पुनः परमार्थतस्ते संहननिनः, ततो नारकाणामस्थ्यभावात् संहननाभावः । एतेन योऽपरिणतभगसिद्धान्तसारो For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy