________________
प्रज्ञापनायाः मलय० वृत्ती.
॥४७०॥
नामे' इति संहनननाम, संहननं - अस्थिरचनाविशेषः, आह च मूलटीकाकारः - "संहननमस्थिरचनाविशेषः” इति, तेन यः प्राह सूत्रे शक्तिविशेष एव संहननमिति, तथा च तद्व्रन्थः - 'सुत्ते सत्तिविसेसो संघयण' मिति स भ्रान्तः, मूलटीकाकारेणापि सूत्रानुयायिना संहननस्यास्थिरचनाविशेषात्मकस्य प्रतिपादितत्वात्, यत्त्वे केन्द्रियाणां सेवार्त्तसंहननमन्यत्रोक्तं तत् टीकाकारेण समाहितं, औदारिकशरीरत्वादुपचारत इदमुक्तं द्रष्टव्यं न तु तत्त्ववृत्त्येति, यदि पुनः शक्तिविशेषः स्यात् ततो देवानां नैरयिकाणां च संहननमुच्येत अथ च ते सूत्रे साक्षादसंहननिन उक्ता इत्यलं उत्सूत्रप्ररूपकविस्पन्दितेषु स चास्थिरचनाविशेष औदारिकशरीर एव नान्येषु तेषामस्थिरहितत्वात् तच पोढा,
१ मतमिदं जिनवल्लभीयं यतस्ततो न श्रीमद्धरिभद्रसूरिसूत्रितायां वृत्तौ कथञ्चिदप्युल्लेखः, न चानुक्तोपालम्भसंभावना यतः तेन जिनवइभेन विहिते तदनुसारिभिश्च विवृते सूक्ष्मार्थसार्धशतके स्पष्टमवलोक्यते चतुर्दश्यां गाथायां "सुत्ते सत्तिविसेसो संघयणमिहट्टिनिचउत्ति सूत्रे, व्याख्याने च - तथा सूत्रे - आगमे शक्तिविशेषः संहननमुच्यते, कोऽभिप्राय: : - वर्षभनाराचादिशब्दस्य संहननाभिधायकस्य शक्तिविशे| षाभिधायकतया व्याख्यातत्वात् शक्तिविशेषः संहननमागमे प्रोच्यते । ईदृशं च संहननं देवनारकयोरपीष्यत एव तेन देवा वर्षभनाराचसंहननिनो नारकाः सेवार्तसंहननिन इत्यागमाभिप्रायतो बोद्धव्यं । इह तु ग्रन्थेऽस्थिनिचयकीलिकादिरूपाणामस्थामेव रचनाविशेषः संहननं बोद्धव्यं, एतचास्थिनिचयरूपं संहननमौदारिकशरीर एव, नान्येषु शेषाणामस्थ्याद्यभावादिति गाथार्थः ॥ व्याख्याकारः पञ्चदश्यामपि गाथायां साक्षेपमभिदधौ यथा अत्राह - ननु “ नरतिरियाणं छप्पिय, हवंति विगलिंदियाण छेवटु" मिति वचनात् यो विकलेन्द्रियाणां पि
Jain Education International
For Personal & Private Use Only
२३ कर्मप्रकृतिपदं
॥४७०॥
www.jainelibrary.org