SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ रुपजायते तदौदारिकाङ्गोपाङ्गनाम, एवं वैक्रियाहारकाङ्गोपाङ्गनाम्नी अपि वाच्ये, तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यङ्गोपाङ्गसम्भवः, तथा बध्यतेऽनेनेति बन्धनं, यदौदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसादिपुद्गलैर्वा सह सम्बन्धजनकं तद्बन्धननाम, आह च मूलटीकाकारः - "विद्यते तत्कर्म यन्निमित्ता व्यादिसंयोगापत्तिराविर्भवति, यथा काष्ठद्वयभेदैक्यस्य करणे जतु कारण" मिति, तच पञ्चधा, तद्यथा - औदारि कबन्धननाम वैक्रियबन्धननाम आहारकबन्धननाम तैजसबन्धननाम कार्मणबन्धननाम, तत्र यदुदयवशात् औदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसादिपुद्गलैश्च सह सम्बन्ध उपजायते तदौदारिकबन्धनं, | यदुदयाद्वैत्रियपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसकार्मणपुद्गलैश्च सह सम्बन्धः तद्वैक्रियबन्धनं, यदुदयादाहारकशरीरपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसकार्मणपुद्गलैश्च सह सम्बन्धस्तदाहारकबन्धनं, यदुदयात्तैजसपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं कार्मणपुद्गलैश्च सह सम्बन्धस्तत्तैजसबन्धननाम, यदयात् कार्मणपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं सम्बन्धस्तत्कार्मणबन्धननाम, तथा सङ्घात्यन्ते - पिण्डीक्रियन्ते औदारिकादिपुद्गला येन तत्सङ्घातं तच्च तन्नाम च सङ्घातनाम, तदपि पञ्चधा, तद्यथा - औदारिकसङ्घा - तनाम वैक्रियसङ्घातनाम आहारकसङ्घातनाम तैजससङ्घातनाम कार्मणसङ्घातनाम, तत्र यदुदयवशादौदारिकशरीररचनाऽनुकारिसङ्घातरूपा जायते तदौदारिकसङ्घातनाम, एवं वैक्रियादिशरीरसङ्घातनामखपि भावनीयं, 'संघयण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy