SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलय० वृत्ती. ॥४६९॥ त्यादि, तथा एकेन्द्रियादीनामेकेन्द्रियत्वादिरूपसमानपरिणामलक्षणमेकेन्द्रियादिशब्दव्यपदेशभाछ यत्सामान्यं सा|२३कर्मप्रजातिस्तजनकं नाम जातिनाम, इदमत्र तात्पर्य-द्रव्यरूपमिन्द्रियमङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामर्थ्यसिद्धं, भा-18 कृतिपदे वरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामर्थ्यात्, "क्षायोपशमिकाणीन्द्रियाणीति वचनात्, यत्पुनरकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनं तथारूपसमानपरिणतिलक्षणं सामान्यं तदनन्यसाध्यत्वाजातिनिबन्धनमिति, तच जातिनामसू. २९३ पञ्चधा, तद्यथा-एकेन्द्रियजातिनाम यावत्पञ्चेन्द्रियजातिनाम, तथा शीर्यते इति शरीरं, तत्पञ्चधा, तद्यथा-औदारिक क्रियमाहारकं तैजसं कामणं, एतानि प्रागेव व्याख्यातानि, तन्निबन्धनं नामापि पञ्चधा, तद्यथा-औदारिकनाम वैक्रियनाम इत्यादि, तत्र यदुदयादौदारिकशरीरप्रायोग्यान पुद्गलानादाय औदारिकशरीररूपतया परिणमयति परिणमय्य च जीवप्रदेशैः सह परस्परानुगमरूपतया सम्बन्धयति तदादारिकशरीरनाम, एवं शेषशरीरनामान्यपि भावनीयानि, 'सरीरोपाङ्गनामेति शरीरस्याङ्गान्यष्टौ शिरःप्रभृतीनि, उक्तं च-'सीसमुरोयरपिट्ठी दो बाहू ऊरुया य अटुंगा [शीर्षमुदरं पृष्ठिद्वौ बाहू उरुणी चाष्टाङ्गानि] इति, उपाङ्गानि अङ्गावयवभूतान्यङ्गुल्यादीनि शेषाणि तत्प्रत्यवयवभूतान्यङ्गुलिपर्वरेखादीनि अङ्गोपाङ्गानि अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि च २ अङ्गोपाङ्गानि "स्यादावसङ्ख्येय" इत्येकशेषः, तन्निमित्तं नाम शरीरोपाङ्गनाम, तच त्रिधा, तद्यथा-औदारिकाङ्गोपाङ्गनाम वैक्रियाङ्गोपागनाम आहारकाङ्गोपाङ्गनाम, तत्र यदुदयवशादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणति ॥४६९॥ Jain Education Inter n al For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy