________________
र्मापि पुरुषवेदः, नपुंसकस्य वेदो नपुंसकवेदः, नपुंसकस्य स्त्रियं पुरुषं च प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि नपुंसकवेदः, तथा यदुदयात् सनिमित्तमनिमित्तं वा हसति स्म हासयते वा तत् हास्यमोहनीयं, यदुदयाद्वाह्याभ्यन्तरेषु वस्तुषु प्रमोदमाधत्ते तत् रतिमोहनीयं, यदुदयवशात् पुनर्वाह्याभ्यन्तरेषु वस्तुषु अप्रीतिं करोति तदरतिमोहनीयं, यदुदयात् प्रियविप्रयोगादौ सोरस्ताङमाक्रन्दति परिदेवते भूपीठे च लुठति दीर्घ च निःश्वसिति तत् | शोकमोहनीयं, यदुदयवशात् सनिमित्तमनिमित्तं वा तथारूपखसङ्कल्पतो विभेति तद्भयमोहनीयं, यदुदयवशात् पुनः शुभमशुभं वा वस्तु जुगुप्सते तत् जुगुप्सामोहनीयं, जुगुप्साजनकं मोहनीयं जुगुप्सामोहनीयं, एवं सर्वपदे - व्वपि विग्रहो भावनीयः, नोकषायता चामीषां हास्यादीनां कषायसहचारित्वात् कैः कषायैः सहचारितेति चेत्, उच्यते, आद्यैर्द्वादशभिः, तथाहि - नाद्येषु द्वादशकषायेषु क्षीणेषु हास्यादीनामवस्थानसम्भवस्तदनन्तरमेव तेषामपि क्षपणाय प्रवृत्तिः, अथवा एते प्रादुर्भवन्तोऽवश्यं कषायादीनुद्दीपयन्ति ततः कषायसहचारिणः, एवं नोशब्दः साह - चर्ये द्रष्टव्यः, कषायैः सहचारिणो नोकपाया इति, उक्तं च - " कषाय सहवर्त्तित्वात् कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता ॥ १ ॥” आयुः कर्मसूत्रं पाठसिद्धं, नामकर्म द्विचत्वारिंशद्विधं, तानेव द्वाचत्वारिंशतं भेदानाह - 'गतिनामे' त्यादि, गम्यते - तथाविधकर्मसचिवैः प्राप्यते इति गतिः - नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा, तद्यथा - नरकगतिस्तिर्यग्गतिर्मनुष्य गतिर्देवगतिस्तज्जनकं नाम गतिनाम, तदपि चतुर्द्धा, 'नरकगतिनामे'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org