SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ वृत्तिगम्यं शुभात्मपरिणामरूपं तन्मोहयतीति चारित्रमोहनीयं, चशब्दो खगतानेकभेदसूचकौ, दर्शनमोहनीयं ।।। त्रिविधं, तद्यथा-सम्यक्त्ववेदनीयं मिथ्यात्ववेदनीयं मिश्रवेदनीयं, तत्र जिनप्रणीततत्त्वश्रद्धानात्मकेन सम्यक्त्वरूपेण यद्वेद्यते तत्सम्यक्त्ववेदनीयं, यत्पुनर्जिनप्रणीततत्त्वाश्रद्धानात्मकेन मिथ्यात्वरूपेण वेद्यते तन्मिथ्यात्ववेदनीयं, | यत्तु मिश्ररूपेण-जिनप्रणीततत्त्वेषु न श्रद्धानं नापि निन्देत्येवंलक्षणेन वेद्यते तन्मिश्रवेदनीयं, आह-सम्यक्त्ववेदनीयं कथं दर्शनमोहनीयं, न हि तदर्शनं मोहयति, तस्य प्रशमादिपरिणामहेतुत्वात् , उच्यते, इह सम्यक्त्ववेदनीयं मिथ्यात्वप्रकृतिः, ततोऽतिचारसम्भवात् , औपशमिकक्षायिकदर्शनमोहनाचेदं दर्शनमोहनीयमित्युच्यते, चारित्रमोहनीयं द्विविधं-कषायवेदनीयं नोकषायवेदनीयं च, तत्र यत्क्रोधादिकषायरूपेण वेद्यते तत्कषायवेदनीयं, यत्पुनः स्त्रीवेदादिनोकषायरूपेण वेद्यते तन्नोकषायवेदनीयं, चशब्दौ खगतानेकभेदसूचको, तत्र कषायवेदनीयं षोडशविधं, क्रोधमानमायालोभानां प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसवलनरूपत्वात् , तत्रानन्तं संसारमनुबन्नन्तीत्येवंशीला अनन्तानुबन्धिनः, उक्तं च-"अनन्तान्यनुबन्धन्ति, यतो जन्मानि भूतये । ततोऽनन्तानुबन्धाख्या, क्रोधायेषु नियोजिता ॥१॥" एषां संयोजना इति द्वितीयमपि नाम, तत्रायमन्वर्थः-संयुज्यन्ते-सम्बध्यन्तेऽनन्तसङ्खयैर्भवजन्तवो यस्ते संयोजनाः, उक्तं च संयोजयन्ति यन्नरमनन्तसङ्ख्यैर्भवैः कषायास्ते । संयोजनता-18 |ऽनन्तानुबन्धिता वाप्यतस्तेषाम् ॥१॥" सर्व प्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते ते भवन्त्यप्रत्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy