________________
प्रज्ञापनाया: मलय. वृत्ती .
॥४६७॥
गच्छति, ततः स्थानस्थितखप्तप्रभवप्रचलोपक्षया तथा अतिशायिनीत्वं, 'थीणद्धी' इति स्त्याना-पिण्डीभूता२३कर्मप्रऋद्धिः-आत्मशक्तिरूपा यस्यां खापावस्थायां सा स्त्यानार्द्धिः, तद्भावे हि प्रथमसंहननस्य केशवा बलसदृशी श-I कृतिपदे |क्तिरुपजायते, तथा च श्रूयते प्रवचने-कचित् प्रदेशे कोऽपि प्राप्तः क्षुलकः स्त्यानर्द्धिनिद्रासहितो द्विरदेन दिवा खलीकृतः, ततस्तस्मिन् द्विरदे बद्धाभिनिवेशोरजन्यां स्त्यानध्र्युदये प्रवर्त्तमानः समुत्थाय तद्दन्तमुशलमुत्पाख्य खोपा- सू. २९३ श्रयद्वारि च प्रक्षिप्य पुनः प्रसुप्तवानित्यादि, तथा चक्षुषा दर्शनं चक्षुर्दर्शनं तस्यावरणीयं चक्षुर्दर्शनावरणीयं अचक्षुपा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनं तस्यावरणीयमचक्षुर्दर्शनावरणीयं अवधिरेव दर्शनमवधिदर्शनं तस्यावरणीयमवधिदर्शनावरणीयं केवलमेव दर्शनं केवलदर्शनं तस्यावरणीयं केवलदर्शनावरणीयं, इह निद्रापञ्चकं प्राप्ताया दर्शनलब्धरुपघातकृद् दर्शनावरणचतुष्टयं तु मूलत एव दर्शनलब्धिमुपहन्ति, आह च गन्धहस्ती-“निद्रादयः समधिगताया दर्शनलब्धेपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तद्गमोच्छेदित्वात् समूलघातं हन्ति दर्शनल|ब्धि"मिति, वेदनीयं द्विधा-सातवेदनीयमसातवेदनीयं च, सातरूपेण यद्वद्यते तत्सातवेदनीय, तद्विपरीतमसातवेदनीयं, किमुक्तं भवति ?-यस्योदयात् शारीरं मानसं च सुखं वेदयते तत्सातवेदनीयं, यस्योदयात् पुनः शरीरे ॥४६७॥ मनसि च दुःखमनुभवति तदसातवेदनीयं, एकैकमष्टविधं, मनोज्ञामनोज्ञशब्दादिविषयभेदात्, मोहनीयं द्विधाका दर्शनमोहनीयं चारित्रमोहनीयं च, दर्शन-सम्यक्त्वं तन्मोहयतीति दर्शनमोहनीयं. चारित्रं-सावधेतरयोगनिवृत्तिप्र
Jain Education International
For Personal & Private Use Only
www
b
rary.org