SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ जाव इस्सरियविहीणया। अंतराए णं भंते ! कम्मे कतिविधे पं० १, गो० ! पंचविधे पं० त०-दाणंतराइए जाव वीरियंतराइए । (मूत्रं २९३) 'कइ णं-भंते !' इत्यादि पूर्ववत्, सम्प्रति 'यथोद्देशं [तथा] निर्देश' इति न्यायात् ज्ञानावरणीयोत्तरप्रकृतिविषयं सूत्रमाह-'नाणावरणिजे णं भंते !' इत्यादि, इह आभिनिबोधिकादि इत्यादिशब्दार्थ उपयोगपदे वक्ष्यते, विग्रहभावना त्वियम्-आभिनिबोधिकज्ञानस्यावरणीयं आभिनिबोधिकज्ञानावरणीयं, एवं श्रुतज्ञानावरणीयमित्यादिप्वपि भावनीयं । दर्शनावरणीयोत्तरप्रकृतीराह-दरिसणावरणिजे णं भंते !' इत्यादि, 'द्रा कुत्सायां' नियतं द्रातिकुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यं यस्यां खापावस्थायां सा निद्रा, यदिवा "दै खप्ने निद्राणं निद्रा, नखच्छोटिकामात्रेण यस्यां प्रबोध उपजायते सा खापावस्था निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रा कारणे कार्योपचारात्, 'निहानिद'त्ति निद्रातोऽतिशायिनी निद्रानिद्रा, शाकपार्थिवादिदर्शनात् 'मयूरव्यसकादय' इति मध्यमपदलोपी समासः, तस्यां हि चैतन्यस्यात्यन्तमस्फुटीभूतत्वात् बहुभिर्घोलनाप्रकारैः प्रबोधो भवति, ततः सुखप्रबोधहेतुनिद्रातोऽस्या अतिशायिनीत्वं, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा उपचारात् , तथा उपविष्ट ऊर्ध्वस्थितो वा प्रचलयति-घूर्णयति यस्यां खापावस्थायां सा प्रचला, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला, 'पयलापयला' इति प्रचलातोऽतिशायिनी प्रचलाप्रचला, पूर्ववत् मध्यमपदलोपी समासः, सा हि चक्रमणादिकमपि कुर्वत उदयमधि 29202929888800900 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy