________________
ce
प्रज्ञापनाया: मलयवृत्ती.
|२३कर्मप्र| कृतिपदे उद्देशः१ सू. २९२
॥४६४॥
इति यान् बहून् पुद्गलान् वेदयते पुद्गलपरिणाम-दिव्यफलाद्याहारपरिणामरूपं विस्रसया वा यं पुद्गलानां परिणामअकस्मादभिहितजलदागमसंवादादिलक्षणं तत्प्रभावादुञ्चैर्गोत्रं वेदयते-उच्चैर्गोत्रकर्मफलं जातिविशिष्टत्वादिकं वेदयते, एतेन परत उदय उक्तः, सम्प्रति स्वतस्तमाह-'तेसि वा उदएणं' तेषां वा उच्चैर्गोत्रकर्मपुरलानां उदयेन जातिविशिष्टत्वादिकं भवति, 'एस णं गोयमा' इत्याधुपसंहारवाक्यं, 'नीयागोयस्स णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्। | निर्वचनमष्टविधोऽनुभावः, तमेवाष्टविधमनुभावं दर्शयति-'जाइविहीणया' इत्यादि, सुप्रतीतं, 'जं वेएइ पुग्गल'मिति यं वेदयते पुद्गलं नीचकर्मासेवनरूपंनीचपुरुषसम्बन्धलक्षणं वा, तथाहि-उत्तमजातिसम्पन्नोऽपि उत्तमकुलोत्पन्नोऽपि यदि नीचैःकर्मवशात् यथा (अधम) जीविकारूपमासेवते चाण्डाली वा गच्छति तदा भवति चाण्डालादिरिव जनस्य निन्द्यः, बलहीनता सुखशयनीयादिसम्बन्धतः रूपविहीनता कुत्सितवस्त्रादिसम्बन्धात् तपोविहीनता पार्श्वस्थादिसंसर्गात् श्रुतविहीनता विकथापरसाध्वाभासादिसंसर्गात् लाभविहीनता देशकालानुचितकुक्रयाणकसम्पर्कतः ऐश्वर्यविहीनता कुग्रहकुकलत्रादिसम्पर्कत इति 'पुग्गले' इति यान बहन पुद्गलान् वेदयते यं वा पुद्गलपरिणाम वृन्ताकीफलाद्याहारपरिणामरूपं, वृन्ताकीफलं ह्यभ्यवहृतं कण्ड्रत्युत्पादनेन रूपविहीनतामापादयतीत्यादि, विश्रसया वा पुद्गलानां परिणाम अभिहितजलदागमविसंवादलक्षणं वेदयते, तत्प्रभावात नीचैःकर्म वेदयते, नीचे कमेंफलं जात्यादिविहीनतारूपं वेदयते इत्यर्थः, एतावता परत उदय उक्तः, सम्प्रति खत उदयमाह-'तेसिं वा उदए
॥४६४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org