________________
8000000000000000000002020
म्बन्धाद् भवन्तीष्टाः शब्दादय इति परिभावनीयमेतत्सूक्ष्मधिया मार्गप्रहर्षमनसोऽनुसारिण्या, 'पुग्गले वा' इति यतो बहून् पुद्गलान् वेणुवीणादिकान् वेदयते यं पुद्गलपरिणामं ब्रायोषध्याहारपरिणामं विस्रसया वा यं पुद्गलानां परिणाम-शुभजलदादिकं तथा चोन्नतान् कज्जलसमप्रभान् मेघानवलोक्य गायन्ति मत्तयुवतयो रेल्लुकानिष्टखरानित्यादि, तत्प्रभावात् शुभनामकर्म वेदयते, शुभनामकर्मफलमिष्टखरतादिकमनुभवतीति भावः, एतावता परत उक्तः, इदानी स्वतस्तमाह-'तेसिं वा उदएणं'ति तेषां वा शुभानां कर्मपुद्गलानामुदयेन इष्टशब्दादिकं वेदयते, 'एसणं गो!' इत्याधुपसंहारवाक्यं, 'दुहनामस्स णं भंते! इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रं प्रागुक्तार्थवपरीत्येन भावनीयं, गोत्रं द्विधा-उच्चैर्गोचं नीचैर्गोत्रं च, तत्रोचैर्गोत्रविषयं सूत्रमाह-'उच्चागोयस्स णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमष्टविधोऽनुभावःप्रज्ञप्तः, तदेवाष्टविधत्वं दर्शयति–जाइविसिट्टया' इत्यादि, जात्यादयः सुप्रतीताः, शब्दार्थस्त्वेवम्-जात्या विशिष्टो जातिविशिष्टस्तद्भावो जातिविशिष्टता इत्यादि जं वेएइ पुग्गलं वा' इत्यादि यं वेदयते पुद्गलं बापद्रव्यादिलक्षणं, तथाहि-द्रव्यसम्बन्धाद्राजादिविशिष्टपुरुषसम्परिग्रहाद्वा नीचजातिकुलोत्पन्नोऽपि जात्या दिसम्पन्न इव जनस्य मान्य उपजायते, बलविशिष्टताऽपि मल्लानामिव लकुटिभ्रमणवशात् रूपविशिष्टता प्रतिविशिष्टतादृग्वस्त्रालङ्कारसम्बन्धात् तपोविशिष्टता गिरिकूट्याचारोहणेनातापनां कुर्वतः श्रुतविशिष्टता मनोज्ञभूदेशसम्बन्धात् खाध्यायं कुर्वतः लाभविशिष्टता प्रतिविशिष्टरत्नादियोगात ऐश्वर्यविशिष्टता धनकनकादिसम्बन्धादिति, 'पुग्गले वा'
Sad200020208800900202020
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org