SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना या मल य० वृत्तौ. ॥४६२॥ दिगन्धा अमनोज्ञानि रूपाणि- स्वगतस्त्वस्त्रीगतादीनि अमनोज्ञाः स्पर्शा:- कर्कशादयः, 'मणोदुहिया' इति दुःखितं मन इति 'वइदुहिया' इति अभव्या वाक् इति भावार्थ:, 'कायदुहिया' इति काये दुःखं यस्यासौ कायदुःखस्त|द्भावः कायदुःखिता दुःखितकाय इत्यर्थः, 'जं वेएइ' इत्यादि, यं वेदयते पुद्गलं - विषशस्त्रकण्टकादि 'पुग्गले वा' इति यान् वा पुद्गलान् बहून् विषशस्त्रकण्टकादीन् वेदयते पुद्गलपरिणाममपथ्याहारलक्षणं, विस्रसया वा यं वेदयते पुद्गलपरिणामं अकालेऽनभिलषितं शीतोष्णादिपरिणामं, तेन मनसोऽसमाधानसम्पादनात् असातवेदनीयं कर्मानुभवति, असातावेदनीयकर्मफलमसातं वेदयते इति भावः, एतेन परत उदय उक्तः, सम्प्रति खत उदयमाह - 'तेसिं वा उदपणं'ति तेषां वा असातावेदनीयकर्मपुद्गलानामुदयेनासातं वेदयते, 'एस णं गोयमा !' इत्याद्युपसंहारवाक्यं । 'मोहणिजस्स णं भंते !' इत्यादि प्रश्मसूत्रं प्राग्वत्, निर्वचनं पञ्चविधोऽनुभावः प्रज्ञप्तः, तदेव पञ्चविधत्वं दर्शयति'सम्यक्त्ववेदनीय' मित्यादि, सम्यक्त्वरूपेण यद्वेद्यं तत्सम्यक्त्ववेदनीयं, एवं शेषपदेष्वपि शब्दार्थो भावनीयः, भावार्थस्त्वयं - यदिह वेद्यमानं प्रशमादिपरिणामं करोति तत्सम्यक्त्ववेदनीयं यत्पुनरदेवादिबुद्धिहेतुस्तन्मिथ्यात्व| वेदनीयं, मिश्रपरिणामहेतुः सम्यग्मिध्यात्ववेदनीयं, क्रोधादिपरिणामकारणं कषायवेदनीयं हास्यादिपरिणामकारणं नोकषायवेदनीयं, 'जं वेएइ पुग्गल' मित्यादि, यं वेदयते पुद्गलषिषयं प्रतिमादिकं पुद्गलान् वा यान् वेदयते बहून् - प्रतिमादीन् यं वा पुद्गलपरिणामं देशाद्यनुरूपाहारपरिणामं कर्मपुद्गलविशेषोपादानसमर्थ भवति, आहारपरिणाम Jain Education International For Personal & Private Use Only २३ कर्मप्रकृतिपदे कर्मानुभा वः सू. २९२ ॥४६२॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy