________________
मनोज्ञानि रूपाणि-खगतखस्त्रीगतचित्रादिगतानि मनोज्ञाः स्पर्शा-हंसतूल्यादिगता 'मणोसुहया' इति मनसि सुख यस्थासौ मनःसुखस्तस्य भावो मनःसुखता, सुखितं मन इत्यर्थः, वाचि सुखं यस्यासौ वाक्सुखस्तस्य भावो वाक्सुखता, सर्वेषां श्रोत्रमनःप्रल्हादकारिणी वागिति तात्पर्यार्थः, काये सुखं यस्यासौ कायसुखस्तद्भावः कायसुखता, |सुखितः काय इत्यर्थः, एते चाष्टौ पदार्थाः सातावेदनीयस्योदयेन प्राणिनामुपतिष्ठन्ते तत उक्तोऽष्टविधः सातवेदनीयस्यानुभावः, परतः सातावेदनीयस्योदयमुपदर्शयति-जं वेएइ पुग्गल'मित्यादि, यद्वेदयते पुद्गलं सकचन्दनादि यान् वेदयते पुद्गलान् बहून् सकचन्दनादीन् यं वा वेदयते पुद्गलपरिणाम देशकालवयोऽवस्थानुरूपाहारपरिणाम, | 'वीससा वा पुग्गलाण परिणाम विस्रसया वा यं पुदलानां परिणामं कालेऽभिलषितं शीतोष्णादिवेदनाप्रतीकार-IS रूपं, तेन मनसः समाधानसम्पादनात् सातवेदनीयं कर्मानुभवति, सातवेदनीयकर्मफलं सात वेदयते इत्यर्थः, उक्तः परत उदयः, सम्प्रति खत उदयमाह-'तेसिं वा उदएणं'ति तेषां वा सातवेदनीयकर्मपुद्गलानामुदयेन मनोज्ञशब्दादिव्यतिरेकेणापि कदाचित् सुखं वेदयते. यथा नैरयिकास्तीर्थकरजन्मादिकाले 'एस णं गोयमा।' इत्याधुपसंहारवाक्यं, 'असायावेयणिजस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनं पूर्ववत्, तथा चाह-'तहेव पुच्छा उत्तरं च' नवरमित्यादिना पूर्वसूत्रादस्य विशेषमुपदर्शयति, 'अमणुण्णा सद्दा' इत्यादि, अमनोज्ञाः शब्दाः-खरोष्ट्राश्वादिसम्बन्धिन आगन्तुका अमनोज्ञा रसाः-खस्याप्रतिभासिनो दुःखजनकाः अमनोज्ञा गन्धा-गोमहिषादिमृतकडेवरा-18
dain Education International
For Personal & Private Use Only
www.jainelibrary.org