________________
तन्निवर्तनमित्युच्यते, तथा जीवन परिणामितस्य-विशेषप्रत्ययः प्रद्वेषनिह्नवादिभिस्तं तमुत्तरोत्तरं परिणाम प्रापितस्य, खयं वा विपाकप्राप्ततया परनिरपेक्षमुदीर्णस्य-उदयप्राप्तस्य परेण वा उदीरितस्य-उदयमुपनीतस्य तदुभयेन-खपररूपेणोभयेन उदीयमाणस्य-उदयमुपनीयमानस्य गतिं प्राप्य किञ्चिद्धि कर्म काश्चिद् गतिं प्राप्य तीब्रा-15 नुभावं भवति, यथा नरकगतिं प्राप्यासातवेदनीयं, असातोदयो हि यथा नारकाणां तीब्रो भवति न तथा तिर्यगादीनामिति, तथा स्थिति प्राप्य सर्वोत्कृष्टामिति शेषः, सर्वोत्कृष्टां हि स्थितिमुपगतमशुभं कर्म तीव्रानुभावं भवति, यथा मिथ्यात्वं भवं प्राप्य, इह किमपि कर्म कश्चिद्भवमाश्रित्य खविपाकदर्शनसमर्थ यथा निद्रा मनुष्यभवं तिर्यभवं वा प्राप्य ततो भवं प्राप्येत्युक्तं, एतावता किल खत उदयस्य कारणानि दर्शितानि, कर्म हि तां तां गति स्थितिं भवं वा प्राप्य खयमुदयमागच्छतीति, सम्प्रति परत उदयमाह-पुद्गलं काष्ठलेष्ठुखशादिलक्षणं प्राप्य, तथाहिपरेण क्षिसं काष्ठलेष्टुखगादिकमासाद्य भवत्यसातवेदनीयक्रोधादीनामुदयः, तथा पुद्गलपरिणाम प्राप्य-इह किञ्चि|त्कर्म कमपि पुद्गलमाश्रित्य विपाकमायाति, यथाऽभ्यवहृतस्याहारस्याजीर्णत्वपरिणाममाश्रित्य असातवेदनीयं ज्ञाना| वरणीयं सुरापानमिति, ततः पुद्गलपरिणाम प्राप्येत्युक्तं, कतिविधोऽनुभावः प्रज्ञप्त इत्येष प्रश्नः, अत्र निर्वचनंदशविधोऽनुभावः प्रज्ञप्तः, तदेव दशविधमनुभावं दर्शयति-'सोयावरणे' इत्यादि, इह श्रोत्रशब्देन श्रोत्रेन्द्रियविषयः क्षयोपशमः परिगृह्यते 'सोयविण्णाणावरणे' इति श्रोत्रविज्ञानशब्देन श्रोत्रेन्द्रियोपयोगो, यत्तु निवृत्त्युपकरणलक्षणं
29202020200090020200000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org