________________
प्रज्ञापनाया मल
म० वृत्तौ .
॥ ४५९॥
रपि गाढतरं बद्धस्यातीव स्पर्शेन स्पृष्टस्य च किमुक्तं भवति ? - आवेष्टन परिवेष्टनरूपतयाऽतीव सोपचयं गाढतरं च बद्धस्येति, 'सञ्चितस्य' आबाधाकालातिक्रमेणोत्तरकालवेदनयोग्यतया निषिक्तस्य 'चितस्य' उत्तरोत्तरस्थितिषु प्रदेशहान्या रसवृद्ध्याऽवस्थापितस्य 'उपचितस्य' समानजातीयप्रकृत्यन्तरदलिकसङ्क्रमेणोपचयं नीतस्य 'आपाकप्रासस्य' ईषत्पाकाभिमुखीभूतस्य 'विपाकप्राप्तस्य' विशिष्टपाकमुपगतस्य अत एव 'फलप्राप्तस्य' फलं दातुमभिमुखीभू| तस्य ततः सामग्रीवशादुदयप्राप्तस्य, एते चापाकप्राप्तत्वादयः कर्मधर्माः यथा आम्रफलस्य, तथाहि - आम्रफलं प्रथमत | ईषत्पाकाभिमुखं भवति, ततो विशिष्टं पाकमुपागतं तदनन्तरं तृप्तिप्रमोदादि फलं दातुमुचितं ततः सामग्रीवशादुपभोगप्राप्तं भवति, एवं कर्मापीति, तत् पुनर्जीवेन कथं बद्धमित्यत आह- 'जीवेण कयस्स' जीवेन कर्मबन्धन - बद्धेनेति गम्यते 'कृतस्य' निष्पादितस्य जीवो छुपयोगस्खभावस्ततोऽसौ रागादिपरिणतो भवति, न शेषो, रागादिपरिणतश्च सन् कर्म करोति, सा च रागादिपरिणतिः कर्मबन्धनबद्धस्य भवति, न तद्वियोगे, अन्यथा मुक्तानामप्यवीतरागत्वप्रसक्तेः, ततः कर्मबन्धनबद्धेन सता जीवेन कृतस्येति द्रष्टव्यं उक्तं च- 'जीवस्तु कर्मबन्धनबद्धो वीरस्य भगवतः कर्त्ता । सन्तत्याऽनाद्यं च तदिष्टं कर्मात्मनः कर्तुः ॥ १ ॥” इति, तथा जीवन निर्वर्त्तितस्य, इह बन्धसमये जीवः प्रथमतोऽविशिष्टान् कर्मवर्गणान्तःपातिनः पुद्गलान् गृह्णन् अनाभोगिकेन वीर्येण तस्मिन्नेव बन्धसमये ज्ञानावरणीयादितया व्यवस्थापयत्याहारमिव रसादिसप्तधातुरूपतया यच्च ज्ञानावरणीयादितया व्यवस्थापनं
Jain Education International
For Personal & Private Use Only
२ ३ कर्मप्रकृतिपदे कर्मानुभा
वः सू.
२९२
॥ ४५९॥
www.jainelibrary.org