________________
प्रज्ञापना
या: मल
य० वृत्तौ .
॥४५६॥
घातहेतुत्वात्, यदा तु परविषयजिघृक्षोपयोगस्तदा सोऽभिष्वङ्गात्मकत्वात् प्रीत्यात्मकः, तत एवं मानमायाठोभा उभयरूपा अपि संवेद्यन्ते, यदा च प्रीत्युपयोगो न तदाऽप्रीत्युपयोगः, यदा चाप्रीत्युपयोगो न तदा प्रीत्युपयोगः, | एकस्मिन् समये उपयोगद्वयाभावात्, ततो मानमायालोभाः प्रीत्युपयोगकाले रागोऽप्रीत्युपयोगकाले द्वेष, कं च - " उज्जसुयमयं कोहो दोसो सेसाणमयमणेगंतो । रागोति य दोसोत्ति य परिणाम वसेण उ विसेसो ॥ १ ॥ माणो रागोत्ति मओ साहंकारोवओगकालंमि । सो चेन होइ दोसो परगुणदोसोवयोगंमि ॥ २ ॥ मायाोभा चैवं परोवघाओवओगतो दोस्रो । मुच्छोवओगकाले रागोऽभिस्संगलिंगोति ॥ ३ ॥” शब्दादयस्त्रयः पुनरेवमाहुःइह द्वावेव कषायौ -- क्रोधो लोभश्थ, ये तु मानमाये ते क्रोधो भयोरन्तर्भवतः, तथाहि -माने मायायां च ये परोपघातहेतवोऽध्यवसायास्ते क्रोधोऽप्रीत्यात्मकत्वात् ये तु खगुणोत्कर्षपरद्रव्यमूर्च्छात्मकास्ते लोभोऽभिष्वङ्गरूपत्वात्, लोभोऽपि च लोकप्रसिद्धो द्विधा - परोपघातात्मको मूर्च्छात्मकश्च तत्र परोपघातात्मको यथा क्षत्रियाणां परराष्ट्रापहारे, मूर्च्छात्मको न्यायोपात्ते निजद्रव्ये, तत्र यः परोपघातात्मकः स क्रोधो भवति, क्रोधश्च सर्वोऽपि योखरूपो द्वेषोऽप्रीत्यात्मकत्वात्, केवलस्तु मूर्च्छात्मकोऽध्यवसायो लोभः स च रागः, तथा चोक्तम्- "सहाइमयं माणे मायाए य सगुणोवरागा य । उवओगो लोहो चित्र जतो स तत्थेव उवरद्धो ॥ १ ॥ सेसंसा कोहो चिय सुपरोधायमइओत्ति तो दोसो | तलक्खणो य लोभो अह मुच्छा केवलो रागो ॥ २ ॥” इति, तत्र सङ्ग्रहनयमतेनाह-
Jain Education International
For Personal & Private Use Only
२३ कर्मप्रकृतिपदे स्थानानि
सू. २९०
॥४५६ ॥
www.jainelibrary.org