________________
मायामपि परवञ्चनात्मिकां किञ्चिदभिलषन् प्रयुङ्क्ते अभिलाषश्च प्रीतिखभाव इति साऽपि प्रीत्यात्मिका, तत एतौ मायालोभौ प्रीत्यात्मकत्वात् रागः, उक्तं च- "कोहं माणं चापीइजाइतो बेइ संगहो दोसं । मायाए लोभेण य स पी सामण्णतो रागं ॥ १ ॥” अत्र उत्तरार्द्धस्याक्षरयोजना - मायया लोभेन सह प्रीतिजातिसामान्यात् स मान - प्रीतिजातिभावात् द्वावपि मायालोभौ स सङ्ग्रहो रागमाचष्टे इति । व्यवहारः पुनर्जूते - माया खलु परोपघाताय प्रयुज्यते परोपघातपरिणामश्च द्वेष इति मायाया अपि द्वेषेऽन्तर्भावः, या तु न्यायोपादानेनार्थे मूर्च्छा स परोपघातरहितः शुद्धो लोभ इति रागः, एवं चेदमस्य मतेन वस्तु व्यवस्थितं - क्रोधमानमाया द्वेषो लोभो राग इति, आह च - "मायंपि दोसमिच्छइ ववहारो जं परोवघायाय । नायोवायाणे चिय मुच्छा लोभेत्ति तो रागो ॥ १ ॥” ऋजुसूत्रः पुनराह — क्रोधो नियमादप्रीत्यात्मकः, ततः स परोपघातात्मकत्वात् द्वेषः, ये तु मानमाया लोभास्ते द्विधाऽपि सम्भवन्ति - प्रीत्यात्मका अप्रीत्यात्मकाश्च तथाहि - मानः खाहङ्कारोपयोगकाले प्रीत्यात्मकः स्वगुणबहुमानभावात्, परगुणद्वेषोपयोगवेलायामप्रीत्यात्मको मात्सर्यादिभावात्, मायाऽपि परवञ्चनोपयोगप्रवृत्तौ परोपघातरूपत्वात् अप्रीत्यात्मिका परगतद्रव्योपादानचिन्तायां त्वभिष्वङ्गात्मकत्वात् प्रीतिरूपा, लोभोऽपि क्षत्रियादीनां परिचिन्त्यमानः प्रीत्यप्रीत्यात्मकः सुप्रतीतः, तथाहि — क्षत्रिया एवं मन्यन्ते परविषयापहारोऽस्माकं न्यायो 'वीरभोग्या वसुन्धरा' इति न्यायात्, ततो यदा परविषयापहाराय तेषामत्यर्थमभियोगस्तदाऽसौ अप्रीत्यात्मकः, परोप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org