________________
RSSSSSSSSSS
प्रायो दानलाभान्तरायादिक्षयोपशमो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् , नीचैःकुलोत्पन्नस्य हुँ दानलाभान्तरायायुदयोऽन्त्यजातीनां तथादर्शनात्, तत एतदर्थप्रतिपत्त्यर्थ गोत्रानन्तरमन्तरायग्रहणं । तदेवमुक्तं प्रथम द्वारम् , अधुना कथं बनातीति द्वितीयद्वारप्रतिपादनार्थमाह-कहपणं भंते।' इत्यादि, कथं-केन प्रकारेण णमिति वाक्यालङ्कारे जीवोऽष्टौ प्रकृतीनाति ?, भगवानाह-गौतम ! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीयं ।। कर्म निर्गच्छति-निश्चयेन गच्छति, विशिष्टोदयापनमासादयति, किमुक्तं भवति?-ज्ञानावरणीयमुत्कर्षप्राप्तमुदयेन अनुभवन् दर्शनावरणीयमुदयेन वेदयते, दृश्यन्ते हि खलु शून्यवादिप्रभृतयः कुवादिनः कुज्ञानवासितान्तःकरणा विपरीतं पश्यन्त इति, दर्शनावरणीयस्य च कर्मण उदयन दर्शनमोहनीयं कर्म निर्गच्छति, विपाकावस्थोदयेन प्रतिपद्यते इति भावः, तस्य दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं निर्गच्छति, अतत्त्वं तत्त्वमध्यवस्थति तत्त्वं चातत्त्वमिति भावः, तत एवं मिथ्यात्वोदयेन जीवोऽष्टौ प्रकृतीबंधाति. खलुशब्दः प्रायोवृत्तिदर्शनार्थः, प्रायस्तावदेवमन्यथा सम्यग्दृष्टिरपि कश्चिदष्टौ प्रकृतीबंधाति, केवलं कश्चित् न बनात्यपि यथा सूक्ष्मसम्परायादिरिति स हा प्रकारो नोक्तः, एष चात्र तात्पर्यार्थः-पूर्वकर्मपरिणामसामर्थ्यात् उत्तरकर्मणः सम्भवो, यथा बीजादडरपत्रना-1
लादीनां, उक्तं च-"जीवपरिणामहेउं कम्मत्ता पुग्गला परिणमंति । पुग्गलकम्मनिमित्तं जीवोवि तहेव परिणमइ ॥१॥" इति [जीवपरिणामहेतोः पुलाः कर्मतया परिणमन्ति । कर्मपुद्गलहेतो वोऽपि तथैव परिणमति
392909009999999
Jain Education International
For Personal & Private Use Only
www.ainelibrary.org