________________
प्रज्ञापनाया:मलय.वृत्ती .
२३कर्मप्र
कृतिपदे. प्रकृति
॥४५॥
न्धश्च सू.
२८८-२८९
ति वचनप्रामाण्यात्, अन्यच्च-यस्मिन् समये सकलकर्मविनिर्मुक्तखरूपो जीवः सम्पद्यते तस्मिन् समये ज्ञानोपयोगोपयुक्त एव न दर्शनोपयुक्तो, दर्शनोपयोगस्य द्वितीयसमये भावात् , ततो ज्ञानं प्रधानं, तदावारकं च ज्ञानावरणीयं कर्म ततस्तत्प्रथममुक्तं, ततस्तदनन्तरं दर्शनावरणीयं ज्ञानोपयोगाच्युतस्य दर्शनोपयोगेऽवस्थानात्, एते च ज्ञानदर्शनावरणीये खविपाकमुपदर्शयतो यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते भवतः, तथाहिज्ञानावरणमुपचयोत्कर्षमधिरूढं विषाकतोऽनुभवन् सूक्ष्म २ तरवस्तुविचारासमर्थमात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तुनि निजप्रज्ञया भिन्दानो बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते, तथाऽतिनिबिडदर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखमद्भुतं, दर्शनावरणक|मक्षयोपशमपटिष्टतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावद् वस्तुनि पश्यन् वेदयते प्रमोदम्, तत एतदथेप्रतिपत्त्यर्थे दर्शनावरणीयानन्तरं वेदनीयग्रहणं, वेदनीयं च सुखदुःखे जनयत्यभीष्टानभीष्टविषयसम्बन्धात् ,अभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषौ तौ च मोहनीयहेतुकौतत एतदर्थप्रतिपत्त्यर्थ वेदनीयानन्तरंमोहनीयग्रहणं, मोह-18 नीयमूढाश्च जन्तवो बहारम्भपरिग्रहाद्यासक्ता नरकाद्यायुष्कमावन्नन्ति ततो मोहनीयानन्तरमायुष्कग्रहणं, नरकाद्यायुष्कोदये चावश्यं नरकगत्यादीनि नामान्युदयमायान्ति तत आयुष्कानन्तरं नामग्रहणं, नामकर्मादयं च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणं, गोत्रोदये. चोचे कलोत्पन्नस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org