________________
IS प्रमत्ता अप्रमत्ताश्चायुर्वन्धकालेऽष्टविधबन्धकाः, आयुषोऽपि बन्धनात् , आयुर्वन्धश्च कादाचित्क इति कदाचित्स
वथा न लभ्यतेऽपि, प्रमत्ताश्चाप्रमत्ताश्च सदैव बहुत्वेन लभ्यन्ते, अपूर्वकरणा अनिवृत्तिबादराश्च कदाचिन्न भवन्त्यपि, विरहस्यापि तेषामागमे प्रतिपादनात्, एकविधबन्धका उपशान्तमोहक्षीणमोहसयोगिकेवलिनः, तत्र उपशान्तमोहाः क्षीणमोहाश्च कदाचिल्लभ्यन्ते कदाचिन्न लभ्यन्ते, तेषामन्तरस्यापि सम्भवात् , सयोगिकेवलिनस्तु सदा प्राप्यन्तेऽन्यान्यभावेन तेषामव्यवच्छेदात्, ततः सप्तविधवन्धका एकविधबन्धकाचावस्थिता इत्यष्टविधबन्धकाद्यभावे एको भङ्गः, अथवा सप्तविधबन्धका एकविधबन्धकाश्च बहव एकोऽष्टविधबन्धक इति द्वितीयः, अष्टविधबन्धकानां बहुत्वे तृतीयः, षडुबिधबन्धका अपि कदाचिल्लभ्यन्तेकदाचिन्न, उत्कर्षतः षण्मासविरहभावात् , यदापि लभ्यन्ते तदापि जघन्यपदे एको द्वौ वा उत्कर्षपदेऽष्टोत्तरं शतं ततोऽष्टविधबन्धकपदाभावे षड्विधबन्धकपदेनापि द्वौ भङ्गो, अबन्धका अयोगिकेवलिनस्तेऽपि कदाचिदवाप्यन्ते कदाचिन्न, तेषामप्युत्कर्षतः षण्मासविरहभावात्, | यदाऽप्यवाप्यन्ते तदापि जघन्यपदे एको द्वौ वा उत्कर्षतोऽष्टाधिकं शतं, ततोऽष्टविधबन्धकपदाभावेऽबन्धकपदेनापि द्वौ भनौ, तदेवमेक आद्यो भङ्ग एककसंयोगे च षडिति सप्त भङ्गाः, इदानी द्विकसंयोगे भङ्गा दर्श्यन्ते, तत्र सप्तविधबन्धका एकविधबन्धकाश्चावस्थिताः, उभयेषामपि सदा बहुत्वेन लभ्यमानत्वात् , ततोऽष्टविधबन्धकपदे षडविधबन्धकपदे च प्रत्येकमेकवचनमिति एको भङ्गः, अष्टविधवन्धकपदे एकवचनं षड्डिधवन्धकपदे बहुवचनं इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org