________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥४५१ ॥
द्वितीयः, एतौ द्वौ भङ्गावष्टविधबन्धकपदस्यैकवचनेन लब्धौ एतावेव द्वौ भङ्गौ बहुवचनेनेति चत्वारः, एवमेव चत्वारो भङ्गाः अष्टविधबन्धकाबन्धकपदाभ्याम्, एवमेव चत्वारः षड्विधबन्धका बन्धकपदाभ्यामिति, सर्वसङ्ख्यया द्विकसंयोगे द्वादश भङ्गाः, त्रयाणामष्टविधबन्धकपडू विधबन्धकाबन्धकरूपाणां पदानां संयोगे प्रत्येकमेकवचनबहुवचनाभ्यामष्टौ भङ्गाः, सर्वसङ्कलनया सप्तविंशतिर्भङ्गाः, अत्रापर आह— ननु विरतस्य कथं बन्धो ?, न हि विरति - न्धहेतुर्भवति, यदि पुनर्विरतिरपि बन्धहेतुः स्यात् ततो निर्मोक्षप्रसङ्गः, उपायाभावात् उच्यते, न हि विरतिर्वन्धहेतुः, किन्तु विरतस्य ये कषाययोगास्ते बन्धकारणं, तथाहि - सामायिकच्छेदोपस्थापन परिहारविशुद्धिकेष्वपि संयमेषु कषायाः संज्वलनरूपा उदयप्राप्ताः सन्ति योगाश्च ततो विरतस्यापि देवायुष्कादीनां शुभप्रकृतीनां तत्प्रत्ययो बन्धः, यथा च प्राणातिपातविरतस्य सप्तविंशतिर्भङ्गा उक्ताः तथा मृषावादविरतस्य यावत् मायामृषाविरतस्य, | मिथ्यादर्शनशल्यविरतमधिकृत्य सूत्रमाह-'मिच्छादंसणसलविरए णं भंते!' इत्यादि सुगमं, नवरं सप्तविधबन्धकत्वमष्टविधबन्धकत्वं षड्रविधबन्धकत्वमे कविधबन्धकत्वमबन्धकत्वं च मिथ्यादर्शनशल्यविरतेरविरतसम्यग्दृष्टेरारभ्यायोगिकेवलिनं यावद्भावात्, नैरयिकादिचतुवैिशतिदण्डकचिन्तायां मनुष्यवर्जेषु शेषेषु सर्वेष्वपि स्थानेषु सप्तविधवन्धकत्वं अष्टविधबन्धकत्वं वा, न पडूविधबन्धकत्वादि, श्रेणिप्रतिपत्त्यसम्भवात्, मनुष्यपदे च यथा जीवपदे तथा वक्तव्यं, मनुष्येषु सर्वभावसम्भवात्, बहुवचनेनैतद्विषयं सूत्रमाह - 'मिच्छादंसण सलविरया णं भंते! जीवा' इत्यादि,
Jain Education International
For Personal & Private Use Only
२२ क्रियापदे विर
ताना क्रियाभावः सू. २८७
॥४५१॥
www.jainelibrary.org