________________
'यं समय' मित्यादौ तु 'कालाध्वनोर्व्याप्ता' वित्यधिकरणे द्वितीया, ततो यस्मिन् समये यस्मिन् देशे यस्मिन् प्रदेशे इति व्याख्येयं, 'जीवे णं भंते ! जं समयं काइयाए अहिगरणियाए' इत्यादि, अत्रापि समयग्रहणेन सामान्यतः कालो गृह्यते, प्रश्नसूत्रं सुगमं, निर्वचनसूत्रे भङ्गत्रयी - कञ्चिज्जीवमधिकृत्य कश्चिज्जीवो यस्मिन् समये-काले क्रियात्रयेण स्पृष्टस्तस्मिन् समये पारितापनिक्याऽपि स्पृष्टः प्राणातिपातक्रियया चेत्येको भङ्गः, पारितापचिक्या स्पृष्टः प्राणातिपातेनास्पृष्ट इति द्वितीयः, पारितापनिक्या प्राणातिपातक्रियया चास्पृष्ट इति तृतीयः; एष च तृतीयो भङ्गो बाणादेर्लक्षात्परिभ्रंशेन घात्यस्य मृगादेः परितापनाद्यसम्भवे वेदितव्यः, यस्तु यस्मिन् समये यं जीवमधिकृत्याद्यक्रियात्रयेणास्पृष्टः स तस्मिन् समये तमधिकृत्य नियमात् पारितापनिक्या प्राणातिपातक्रियया चास्पृष्टः, कायि - क्याद्यभावे परितापनादेरभावात् । तदेवमुक्ताः क्रियाः, साम्प्रतं प्रकारान्तरेण क्रिया निरूपयति
Jain Education International
कतिणं भंते! किरियाओ पण्णत्ताओ ?, गो० ! पंच किरियाओ पं० तं० – आरंभिया परिग्गहिया मायावत्तिया अपच्चक्खाकिरिया मिच्छादंसणवत्तिया, आरंभिया णं भंते । किरिया कस्स कजति ?, गो० ! अण्णयरस्सवि पमत्तसंजयस्स, परिग्गहिया णं भंते । किरिया कस्स कअइ १, गो० ! अण्णयरस्सवि संजया संजयस्स, मायावत्तिया णं भंते ! किरिया कस्स कज्जति १, गो० ! अण्णयरस्सावि अपमत्तसंजयस्स, अपचक्खाणकिरिया णं भंते ! कस्स कजति ?, गो०! अण्णयरस्सवि अपच्चक्खाणिस्स, मिच्छादंसणवत्तिया णं भंते! किरिया कस्स कजति ?, गो० ! अण्णयरस्सावि मिच्छादंसणिस्स ।
For Personal & Private Use Only
www.jainelibrary.org