________________
व्यपरोपणरूपा क्रिया नास्ति, तेषामनपवायुष्कत्वात् , ततस्तान् प्रति स्यात् त्रिक्रियः स्याचतुष्क्रिय इति वक्तव्यं, नैरयिको देवान् प्रति कथं चतुष्क्रिय इति चेत् , उच्यते, इह भवनवास्यादयो देवास्तृतीयां पृथिवीं यावत् गता गमिष्यन्ति च, किमर्थं गता गमिष्यन्तीति चेत् ?, उच्यते, पूर्वसागतिकस्य वेदनामुपशमयितुं पूर्ववैरिणो वेदनामु-|| दीरयितुं (वा) तत्र गच्छन्ति, तदानीमनन्तकालादेतदपि भवति (यद्) तद्गताः सन्तो नारकैर्बध्यन्ते इति, आह च मूलटीकाकारोऽपि-"तत्र गता नारकैबध्यन्ते इत्यप्यनन्तकाल एव कथञ्चित्सम्भवमात्र"मिति, अत्रापर आहननु नारकस्य द्वीन्द्रियादीनधिकृत्य कथं कायिक्यादिक्रियासम्भवः ?, उच्यते, इह नारकैर्यस्मात् पूर्वभवशरीरं न व्युत्सृष्टं विवेकाभावात् , तदभावश्च भवप्रत्ययात्, ततो यावत् शरीरं तेन जीवन निर्वर्तितं सत् तं शरीरप-| रिणाम सर्वथा न परित्यजति तावद् देशतोऽपि तं परिणामं भजमानं पूर्वभावप्रज्ञापनया तस्येति व्यपदिश्यते घृतघटवत् , यथा हि घृतपूर्णो घटो घृते अपगतेऽपि घृतघट इति व्यपदिश्यते, तथा तदपि शरीरं तेन निर्वर्त्तित-| मिति तस्येति व्यपदेशमर्हति, ततस्तस्य शरीरस्य एकदेशेनास्थ्यादिना योऽन्यः प्राणातिपातं करोति, ततः पूर्वनिर्वतितशरीरजीवोऽपि कायिक्यादिक्रियाभियुज्यते, तेन तस्याव्युत्सृष्टत्वात् , तत्रेयं पञ्चानामपि क्रियाणां भावनातत्कायस्य व्याप्रियमाणत्वात् कायिकी कायोऽधिकरणमपि भवतीत्युक्तं प्राक् तत आधिकरणिकी, प्राद्वेषिक्यादयस्त्वेवं-यदा तमेव शरीरैकदेशं अभिघातादिसमर्थमन्यः कश्चनापि प्राणातिपातोद्यतो दृष्ट्वा तस्मिन् घासे द्वीन्द्रियादौ
dain Education Tnternational
For Personal & Private Use Only
HIN.jainelibrary.org