________________
प्रज्ञापना
या: मल
य० वृत्तौ .
॥४४२॥
ष्कतया जीविताद् व्यपरोपणस्यापि सम्भवात्, तदेवमेकस्य जीवस्य एकं जीवं प्रति क्रियाश्चिन्तिताः सम्प्रत्येकस्यैव जीवस्य बहून् जीवान् प्रति क्रियाश्चिन्तयति - 'जीवे णं भंते ! जीवेहिंतो कइकिरिए पण्णत्ते' इत्यादि, एषोऽपि दण्डकः प्राग्वद्भावनीयः, अधुना बहूनां जीवानामेकं जीवमधिकृत्य क्रियाश्चिन्तयति - 'जीवा णं भंते ! जीवातो कइकिरिया पं०' इत्यादि, एषोऽपि दण्डकः प्रथमदण्डकवदवसेयः, अधुना बहूनां जीवानां बहून् जीवानधिकृत्य सूत्रमाह - 'जीवा णं भंते ! जीवेहिंतो कइकिरिया पं० १' इत्यादि, अत्र प्रश्नः पाठसिद्धो, निर्वचनमिदं - गौतम ! त्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रिया अपि अक्रिया अपि, कस्यापि जीवस्य कमपि जीवं प्रति त्रिक्रियत्वात् कस्यापि चतुष्क्रियत्वात् कस्यापि पञ्चक्रियत्वात् कस्यापि मनुष्यस्य सर्वोत्तमचारित्रिणः सिद्धस्य वा शेषस्याक्रियत्वात् इति सर्वत्र बहुवचनरूप एक एव भङ्गः, एवं नैरयिकादिक्रमेण तावद् वक्तव्यं यावद्वैमानिकसूत्रं, नवरं नैरयिकान् देवांश्च प्रति त्रिक्रिया अपि चतुष्क्रिया अपि अक्रिया अपीति वक्तव्यं, शेषान् सङ्ख्येयवर्षायुषः प्रति पञ्चक्रिया अपीति, तदेवं सामान्यतो जीवपदमधिकृत्य दण्डकचतुष्टयमुक्तं, सम्प्रति नैरयिकपदमधिकृत्याह - 'नेरइए णं भंते ! जीवातो कतिकिरिए पं०' इत्यादि 'एवं जाव वेमाणिएहिंतो' इति, अत्र यावत्करणात् 'नैरयिको जीवान् प्रति कतिक्रिय' इति इत्यादिरूपो द्वितीयोऽपि दण्डक उक्तो द्रष्टव्यः, सर्वत्र औदारिकशरीरान् सङ्ख्येयवर्षायुषः प्रति स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रिय इति वक्तव्यं, नैरयिकस्य देवान् प्रति पञ्चमी जीविताद्
Jain Education International
For Personal & Private Use Only
२२ क्रियापदे सूत्रं
२८१
॥४४२॥
www.jainelibrary.org