SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अवराहं पत्तो एवं जीवोवि जम्मतरत्थं देहोवहाइ अवोसिरंतो अणुमयभावतो पावेइ दोस ?, श्रूयते च जाति-II स्मरणादिना विज्ञाय पूर्वदेहमतिमोहात् (केचित्) सुरनदी प्रत्यस्थिशकलानि नयन्तीति । इदानीं सूत्रव्याख्याजीवो भदन्त ! जीवमधिकृत्य कतिक्रियः प्रज्ञप्तो ?, भगवानाह-गौतम ! स्यात्-क्वचित् त्रिक्रियः कायिक्याधिकरणिकीप्राद्वेषिकीभावात् , तत्र वर्तमानभवमधिकृत्य भावना प्राग्वत् भावनीया, अतीतभवमधिकृत्यैवं-कायिकी तत्सम्बन्धिनः कायस्य कायैकदेशस्य वा व्याप्रियमाणत्वात् , आधिकरणिकी तत्संयोजितानां हलगरकूटयत्रादीनां तन्निवर्तितानां वा असिकुन्ततोमरादीनां परोपघाताय व्याप्रियमाणत्वात् , यदिवा देहोऽप्यधिकरणमित्याधिकरणिक्यपि, प्राद्वेषिकी तद्विषयाऽकुशलपरिणामप्रवृत्तेरप्रत्याख्यातत्वात् , स्थाचतुष्क्रियः पारितापनिक्यपि कायेन कायैकदेशेनाधिकरणेन वा तत्सम्बन्धिना क्रियमाणत्वात् , स्यात्पश्चक्रियो यदा तेन जीवितादपि व्यपरोपणमाधीयते. स्यादक्रियो यदा पूर्वजन्मभावि शरीरमधिकरणं वा त्रिविधं त्रिविधेन व्युत्सृष्टं भवति, न चापि तजन्मभाविना शरीरेण काञ्चिदपि क्रियां करोति, इदं चाक्रियत्वं मनुष्यापेक्षया द्रष्टव्यं, तस्यैव सर्वेविरतिभावात् , सिद्धापेक्षया वा, तस्य देहमनोवृत्त्यभावेनाक्रियत्वात् , अमुमेवार्थ चतुर्विशतिदण्डकक्रमेण निरूपयति-'जीवेणं भंते ! नेरइयाओ कइकिरिए' इत्यादि सुगम, नवरमयं भावार्थः-देवनारकान् प्रति चतुष्क्रिय एव, तेषां जीविताद् व्यपरोपणस्यासम्भवाद् 'अनपवायुषो नारकदेवा' इति वचनात् , शेषान् सङ्ख्येयवर्षायुषः प्रति पञ्चक्रियोऽपि, तेपामपवायु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy