________________
प्रज्ञापनायाः मलय० वृत्ती.
२२क्रियापदे क्रियासंवेधः सू. २८२
॥४४३॥
समुत्पन्नक्रोधादिकारणोऽभिघातादिसमर्थमिदं शस्त्रमिति चिन्तयन् अतीवक्रोधादिपरिणामं भजते पीडां चोत्पादयति जीविताच व्यपरोपयति तदा तत्सम्बन्धिप्राद्वेषिक्यादिक्रियाकारणत्वान्नैगमनयाभिप्रायेण तस्यापि प्राद्वेषिकी पारितापनिकी प्राणातिपातक्रिया च यथायोगं, यथा च नैरयिकपदे चत्वारो दण्डका उक्ताः तथा असुरकुमारा|दिष्वपि शेषेषु त्रयोविंशतौ स्थानेषु चत्वारः चत्वारो दण्डका वक्तव्याः, नवरं जीवपदे मनुष्यपदे चाक्रिया इत्यपि वक्तव्यं, विरतिप्रतिपत्ती व्युत्सृष्टत्वेन तन्निमित्तक्रियाया असम्भवात् , शेषा अक्रिया नोच्यन्ते, विरत्यभावतः खशरीरस्य भवान्तरगतस्याव्युत्सृष्टत्वेनावश्यं क्रियासम्भवात् , तदेवं सामान्यतो जीवपदे एकं शेषाणि तु नैरयिकादीनि स्थानानि चतुर्विंशतिरिति सर्वसङ्ख्यया पञ्चविंशतिरेकैकस्मिंश्च स्थाने चत्वारो दण्डका इति सर्वसङ्कलनया दण्डकशतं । अथ केषां जीवानां कति क्रिया इति निरूपणार्थ प्रागुक्तमेव सूत्रं पठति
कति णं भंते ! किरियाओ पण्णताओ?, गोयमा ! पंच किरियाओ पण्णताओ, तं०-कातिया जाव पाणातिवातकिरिया, नेरइया णं भंते ! कति किरियातो पण्णताओ?, गो०! पंच किरियातो पण्णताओ, तं०-कातिया जाव पाणातिवायकि०, एवं जाव वेमाणियाणं, जस्स णं भंते ! जीवस्स कातिया किरिया कजइ तस्स अहिगरणिया किरिया कजति जस्स अहिगरणिया किरिया कजति तस्स कातिया कजति ?, गो०! जस्स णं जीवस्स कातिया किरिया कजति तस्स अहिगरणी किरिया नियमा क०, जस्स अहिगरणी किरिया क० तस्सवि काइया किरिया नियमा कजति, जस्स
॥४४॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org