________________
दण्डकक्रमेण तावद् वक्तव्यं यावद्वैमानिकसूत्रं, सूत्रपाठस्त्वेवम्— 'नेरइए णं भंते ! नाणावरणिज्जं कम्मं बंधमाणे कइकिरिए पं०' इत्यादि, तदेवमेकत्वेन दण्डक उक्तः, सम्प्रति बहुत्वेनाह - 'जीवा णं भंते !' इत्यादि, प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जीवास्त्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रिया अपि किमुक्तं भवति १ – जीवा | ज्ञानावरणीयं कर्म बभ्रन्तः सदैव बहव इति त्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रिया अपि लभ्यन्ते इत्येक एव भङ्गः, यथा च सामान्यतो जीवपदेऽभङ्गकं तथा नैरयिकादिषु चतुर्विंशतौ स्वस्थानेषु प्रत्येकमभङ्गकं द्रष्टव्यं, नैरयि| कादीनामपि ज्ञानावरणीयकर्म बनतां सदैव त्रित्रियाणामपि चतुष्क्रियाणामपि पञ्चत्रियाणामपि बहुत्वेन लभ्यमानत्वात् यथा च ज्ञानावरणीयं कर्माधिकृत्य एकत्वपृथक्त्वाभ्यां द्वौ दण्डकावुक्तौ तथा दर्शनावरणीयादीन्यपि कर्माण्यधिकृत्य प्रत्येकं द्वौ द्वौ दण्डको वक्तव्यौ, तत एवं सति सर्वसङ्ख्यया षोडश दण्डका । 'जीवे णं भंते ! जीवातो कतिकिरिए पं०' इति, अथ कोऽस्य सूत्रस्य सम्बन्धः ?, उच्यते, इह न केवलं वर्त्तमानभववर्त्तिनो जी - वस्य ज्ञानावरणीयादिकर्मबन्धभेदप्ररूपणे कायिक्यादिक्रियाविशेषणः प्राणातिपातभेदो भवति, किन्त्वतीतभवका|यसम्बन्धः कायिक्यादिक्रियाविशेषणोऽपि तत एतस्यार्थस्य प्रतिपादनार्थमिदं सूत्रम्, अस्य चेयं पूर्वाचार्योपदशिता भावना - 'इह संसारअडवीए परिब्भमंतेहिं सङ्घजीवेहिं तेसु तेसु ठाणेसु सरीरोवहाइणो विष्पमुक्का तेहि य सत्थभूएहिं जया कस्सर खतः परितापनादयो भवंति तथा तस्सामिणो भवंतरगयस्सवि तत्रानिवृत्तत्वात् किरि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org