SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मल य० वृत्तौ . ॥४४०॥ न्तरज्योतिष्कवैमानिका यथा नैरयिका भङ्गत्रिकेणोक्तास्तथा वक्तव्याः, यथा च प्राणातिपातेनैकत्वपृथक्त्वाभ्यां द्वौ दण्डकायुक्तावेवं सर्वपापस्थानैरपि प्रत्येकं द्वौ द्वौ दण्डको वक्तव्यौ, तथा चाह - " जाव मिच्छादंसणसल्लेणं' ति सर्वसङ्ख्यया कियन्तो दण्डका भवन्तीति चेत्, अत आह— ' एवं एगत्तपोहत्तिया छत्तीसं दंडगा होंति' अष्टादशानां द्वाभ्यां गुणने षट्त्रिंशद्भावात् । 'जीवे णं भंते' इत्यादि, अथ कोऽस्य सूत्रस्यापि सम्बन्धः १, उच्यते, इह प्रागुक्तं जीवः प्राणातिपातेन सप्तविधमष्टविधं वा कर्म बनाति, स तु तमेव प्राणातिपातं ज्ञानावरणीयादि कर्म बन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यते, अपिच - कार्येण ज्ञानावरणीयाख्येन कर्मणा कारणस्य प्राणातिपाताख्यस्य निवृत्तिभेद उपदर्श्यते, तद्भेदाच्च बन्धविशेषोऽपीति, उक्तं च - " तिसृभिश्चतसृभिरथ पञ्चभिश्च [क्रियाभिः ]हिंसा समाप्यते क्रमशः । बन्धोऽस्य विशिष्टः स्याद्योगप्रद्वेषसाम्यं चेत् ॥ १ ॥” इति, तमेव प्राणातिपातस्य निवृत्तिभेदं दर्शयति- 'सिय तिकिरिए ' इत्यादि, स्यात् — कदाचित्रिक्रियः कदाचिच्चतुष्क्रियः कदाचित् पञ्चक्रियः, तत्र त्रिक्रियता कायिक्याधिकरणिकीप्राद्वेषिकीभिः क्रियाभिः, कायिकी नाम हस्तपादादिव्यापारणं अधिकरणिकी खड्गादिप्रगुणीकरणं प्राद्वेषिकी मारयाम्येनमित्यशुभमनःसम्प्रधारणमिति, चतुष्क्रियता कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीभिः पारितापनिकी नाम खड्गादिघातेन पीडाकरणं, पञ्चक्रियता यदा प्राणातिपातक्रियाऽपि पञ्चमी भवति, प्राणातिपातक्रिया जीविताद् व्यपरोपणं, एवं नैरयिकादारभ्य चतुर्विंशति 2 Jain Education International For Personal & Private Use Only २२ क्रियापदे सूत्रं २८१ ॥४४०॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy