________________
भाणितवा, एवं च उवउजिऊणं भावेयत्वंति, जीवे मणूसे य अकिरिए वुच्चति सेसा अकिरिया न वुच्चंति, सबजीवा ओरालियसरीरेहितो पंचकिरिया नेरइय देवेहिंतो पंचकिरिया ण वुचंति, एवं एकेकजीवपदे चत्तारि २ दंडगा भाणितबा, एवं एतं दंडगसयं सवेवि य जीवादीया दंडगा (मूत्र २८१) 'जीवे णं भंते !' इत्यादि सुगम, नवरं सप्तविधबन्धकत्वं आयुर्वन्धविरहकाले आयुर्वन्धकाले चाष्टविधवन्धकत्वं, पृथक्त्वचिन्तायां सामान्यतो जीवपदे सप्तविधबन्धका अपि अष्टविधवन्धका अपि सदैव बहुत्वेन लभ्यन्ते तत उभयत्रापि बहुवचनमित्येवंरूप एक एव भङ्गः, नैरयिकसूत्रे सप्तविधबन्धका अवस्थिता एव, हिंसापरिणामपरिणतानां सदैव बहुत्वेन लभ्यमानानां सप्तविधबन्धकत्वस्यावश्यंभावित्वात् , ततो यदा एकोऽप्यष्टविधबन्धको न लभ्यते तदेप भङ्गः सर्वेऽपि तावद्भवेयुः सप्तविधवन्धका इति, यदा पुनरेकोऽष्टविधबन्धकः शेषाः सर्वे ससविधवन्धका-13 | स्तदा द्वितीयो भङ्गः सप्तविधवन्धकाश्च अष्टविधवन्धकश्च, यदा त्वष्टविधबन्धका अपि बहवो लभ्यन्ते तदा उभयगतबहुवचनरूपस्तृतीयो भङ्गः सप्तविधबन्धकाश्च अष्टविधवन्धकाश्च, एवं भङ्गत्रयेणासुरकुमारादयोऽपि तावद्वक्तव्याः यावत् स्तनितकुमाराः, पृथिव्यप्तेजोवायुवनस्पतिकायिका यथा सामान्यतो जीवा उक्तास्तथा वक्तव्याः, उभयत्रापि बहुवचनेनैक एव भङ्गो वक्तव्य इति भावः, पृथिव्यादीनां हिंसापरिणामपरिणतानां प्रत्येक सप्तविधबन्धकानामष्टविधवन्धकानां च सदैव बहुत्वेन लभ्यमानत्वात्, शेषा द्वित्रिचतुरिन्द्रियतिर्यक्रपञ्चेन्द्रियमनुष्यव्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org