________________
'परिणामियं पमाणं निच्छयमवलंबमाणाण' [पारिणामिकं प्रमाणं निश्चयमवलम्बयतां] मित्याद्यागमवचनस्य | स्थितत्वाद्, अमुमेव वचनमधिकृत्याऽऽवश्यकेपीदं सूत्रं प्रावर्त्तिष्ट-'आया चेव अहिंसा आया हिंसत्ति निच्छओ एस' इति, तदेवं यथा प्राणातिपातक्रिया भवति तथोक्तम् , सम्प्रति कस्मिन् विषये सा प्राणातिपातक्रिया भवतीयेतन्निरूपयति-'कम्हि णं भंते' इत्यादि सुगमम्, नवरं मारणाध्यवसायो जीवविषयो भवति नाजीवविषयो, योऽपि रजवादी सर्पादिबुद्ध्या मारणाध्यवसायः सोऽपि सर्पोऽयमिति बुया प्रवर्त्तमानत्वात् जीवविषये एव, न खलु रज्यादौ रज्वादितया परिच्छिन्ने कश्चित्तद्विषयं मारणाध्यवसायं विदधाति, ततः प्राणातिपातक्रिया षट्सु जीवनिकायेपूक्ता, एतामेव प्राणातिपातक्रियामुक्तप्रकारेण नैरयिकादिकं चतुर्विंशतिदण्डकमधिकृत्य चिन्तयति-'अस्थि णं भंते' इत्यादि, नवरमेवं सूत्रपाठः 'अत्थि णं भंते ! नेरइयाणं पाणाइयाएणं किरिया कजइ ?, हंता अत्थि, कम्हि णं भंते ! पाणाइवाएणं किरिया कजइ १, गोयमा! छसु जीवनिकाएसु', एवं तावद् वाच्यं यावद्वैमानिकविषयं सूत्रं । तदेवं यथा प्राणातिपातक्रिया भवति यद्विषया च तत्प्रतिपादितं, सम्प्रति एवमेव मृपावादादिविषयाण्यपि सूत्राण्याह-'अस्थि णं भंते । मुसावाएण'मित्यादि सुगम, नवरं 'किरिया कज्जइ' इति यथायोगं प्राणातिपातादिक्रिया भवतीत्यर्थः, तथा सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः, स च लोकालोकगतसमस्तवस्तुविषयोऽपि घटते, तत उक्तं मृपावादसूत्रम्-'सव्वदचेसु' इति, द्रव्यग्रहणमुपलक्षणं तेन पर्यायेष्वपीत्यपि द्रष्टव्यं, तथा
टरसिटटटटटटट
dain Education International
For Personal & Private Use Only
www.jainelibrary.org