________________
प्रज्ञापनाया: मलयवृत्ती.
२२ क्रियापदे प्राणातिपाता दिना क्रियाः सू.
a
॥४३७॥
२८०
| 'जीवा णं भंते !' इत्यादि सुगम, नवरं 'संसारसमावण्णगा' इति संसारं-चतुर्गतिभ्रमणरूपं सम्यग्-एकीभा- वेनापन्नाः संसारसमापन्नाः संसारसमापन्ना एव संसारसमापन्नकाः, प्राकृतत्वात् खार्थे कप्रत्ययः, तद्विपरीता असंसारसमापन्नकाः, चशब्दौ खगतानेकभेदसूचकौ, तत्र ये असंसारसमापन्नकास्ते सिद्धाः, सिद्धाश्च देहमनोवृत्त्यभावतोऽक्रियाः, ये तु संसारसमापन्नकास्ते द्विविधाः-शैलेशीप्रतिपन्नका अशैलेशीप्रतिपन्नकाश्च, शैलेशी नामायोग्यवस्था तां प्रतिपन्नाः शैलेशीप्रतिपन्नाः, ततः पूर्ववत् स्वार्थिकः कप्रत्ययः, शैलेशीप्रतिपन्नकाः, तद्व्यतिरिक्ताः अशैलेशीप्रतिपन्नकाः, तत्र ये शैलेशीप्रतिपन्नकास्ते सूक्ष्मवादरकायवाङ्मनोयोगनिरोधादक्रियाः, ये त्वशैलेशीप्रतिपन्नकास्ते सयोगित्वात् सक्रियाः, 'से एएणटेण'मित्याधुपसंहारवाक्यं । तदेवं ये सक्रिया ये चाक्रियास्ते उक्ताः, सम्प्रति यथा प्राणातिपातक्रिया न भवति तथा दर्शयति-'अत्थि णं भंते !' इत्यादि, अस्त्येतत् , णमिति वाक्यालङ्कारे, भदन्त ! जीवानां प्राणातिपातेन-प्राणातिपाताध्यवसायेन क्रिया सामर्थ्यात् प्राणातिपातक्रिया क्रियते ?, कर्मकर्त्तयेयं प्रयोगो, भवतीत्यर्थः, अनतीतनयाभिप्रायात्मकोऽयं प्रश्नः, कतमोऽत्र नयो यमध्यवसाय पृष्टमिति चेत्, उच्यते, ऋजुसूत्रस्तथाहि-ऋजुसूत्रस्य हिंसापरिणतिकाल एव प्राणातिपातक्रियोच्यते, पुण्यपापकर्मोपादानानुपादानयोरध्यवसायानुरोधित्वात्, न अन्यथा परिणताविति, भगवानपि तं ऋजुसूत्रनयमधिकृत्य प्रत्युत्तरमाह-हंता ! अत्थि' हन्तेति प्रेषणप्रत्यवधारणविषादेषु, अत्र प्रत्यवधारणे, अस्त्येतत्प्राणातिपाताध्यवसायेन प्राणातिपातक्रिया भवति,
॥४३७॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org