SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ poo00000000000020eadmorner रतकायिकी दुष्प्रयुक्तकायिकी च, उपरतो-देशतः सर्वतो वा सावद्ययोगाद्विरतः नोपरतोऽनुपरतः कुतश्चिदप्यनि-11 वृत्त इत्यर्थः तस्य कायिकी अनुपरतकायिकी क्रियेति वर्तते, इयं प्रतिप्राणिनि वर्तते, इयमविरतस्य वेदितव्या, न देशविरतस्य सर्वविरतस्य वा, तथा दुष्टं प्रयुक्तं-प्रयोगः कायादीनां यस्य स दुष्प्रयुक्तस्तस्य कायिकी दुष्प्रयुक्तकायिकी, इयं प्रमत्तसंयतस्यापि भवति, प्रमत्ते सति कायदुष्प्रयोगसम्भवात् । आधिकरणिक्यपि द्विभेदा, तद्यथासंयोजनाधिकरणिकी निर्वर्तनाधिकरणिकी च, तत्र संयोजनं-पूर्वनिर्वर्त्तितानां हलगरविषकूटयत्राद्यङ्गानां मीलनं तदेव संसारहेतुत्वादाधिकरणिकी संयोजनाधिकरणिकी, इयं हलाद्यङ्गानि पूर्वनिर्वर्त्तितानि संयोजयितुर्भवति, तथा निवर्तनं-असिशक्तिकुन्ततोमरादीनां मूलतो निष्पादनं तदेवाधिकरणिकी निवर्त्तनाधिकरणिकी, पञ्चविधस्य वा शरीरस्य निष्पादनं निर्वर्तनाधिकरणिकी, देहस्यापि दुष्प्रयुक्तस्य संसारवृद्धिहेतुत्वात् । प्रादेषिकी त्रिभेदा, तद्यथा'जेण अप्पणो'इत्यादि, येन प्रकारेण जीवा आत्मनो वा-खस्य वा अन्यस्य वा-आत्मव्यतिरिक्तस्य उभयस्य वाखपरलक्षणस्योपरि अशुभं-अकुशलं मनः-अन्तःकरणं प्रधारयति-प्रकर्षेण धारयति करोतीत्यर्थः तेन कारणेन विषयस्य त्रैविध्यात् त्रिविधा प्राद्वेषिकी क्रिया, तथाहि-कश्चित् कस्मिन् प्रयोजने खयमनुष्ठिते पर्यन्ते विपाकदारुणे संवृत्ते सति अविवेकादात्मन एवोपरि अकुशलं मनः सम्प्रधारयति, एवं कश्चित् परस्य, कश्चित् खपरयोरपीति। पारितापनिक्यपि त्रिविधा, तद्यथा-'जेणं अप्पणो' इत्यादि, येन प्रकारेण कश्चित् कुतश्चित् हेतोरविवेकत आत्मन 20202020129002020292920202020 Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy