________________
कयोजनसहस्रप्रमाणत्वात् , ततोऽपि वैक्रियशरीरस्योत्कृष्टावगाहना सङ्ख्येयगुणा, सातिरेकयोजनलक्षमानत्वात् , तेज-11 सकार्मणयोरुत्कृष्टावगाहना द्वयोरपि परस्परं तुल्या वैक्रियशरीरोत्कृष्टावगाहनातोऽसङ्ख्येयगुणा, चतुर्दशरज्वात्मकत्वात् , जघन्योत्कृष्टावगाहनचिन्तायां आहारकशरीरस्य 'जहणियाहिंतो ओगाहणाहितो तस्स चेव उक्कोसिया ओगाहणा विसेसाहिया' इति, देशेन समधिकत्वात् , शेष सुगम, अनन्तरमेव भावितत्वात् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामेकविंशतितममवगाहनासंस्थानपदं समर्थितम् ॥२१॥
09009999999
अथ द्वाविंशतितमं क्रियाख्यं पदं ॥ २२ ॥
Keeeeeeeeeeeeeeks
तदेवं व्याख्यातमेकविंशतितमं पदं, अधुना द्वाविंशतितममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे गतिपरिणामविशेषरूपं शरीरावगाहनादि चिन्तितं, इह तु नारकादिगतिपरिणामेन परिणतानां जीवानां प्राणातिपाता|दिरूपाः क्रियाविशेषाश्चिन्त्यन्ते, तत्रेदमादिसूत्रम्__ कति णं भंते ! किरियाओ पण्णताओ ?, गो० ! पंच किरियाओ पण्णत्ताओ, तं०–काइया १ अहिगरणिया २ पादो
सिया ३ पारियावणिया ४ पाणाइवायकिरिया, काइया णं भंते ! किरिया कातेविहा पं० १, गो०! दुविहा पं०, तं०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org