SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल य० वृत्तौ . ॥४३४॥ Sपि वैयिशरीराणि प्रदेशार्थतया असङ्ख्येयगुणानि, तेभ्योऽप्यौदारिकशरीराणि प्रदेशार्थतया असङ्ख्येयगुणानि, अत्र भावना प्रागेव कृता, तेभ्योऽपि तैजसकार्मणानि द्रव्यार्थतया अनन्तगुणानि अतिप्रभूतानन्तसङ्ख्योपेतत्वात्, तेभ्योऽपि तैजसशरीराणि प्रदेशार्थतयाऽनन्तगुणानि, अनन्तपरमाण्वात्मिकाभिरनन्ताभि (वैर्गणाभि ) रेकैकस्य तैजसशरीरस्य निष्पाद्यत्वात्, तेभ्योऽपि कार्मणशरीराणि प्रदेशार्थतयाऽनन्तगुणानि, अत्र कारणं प्रागेवोक्तं । तदेवं पञ्चानामपि शरीराणां द्रव्यप्रदेशो भयैरल्पबहुत्वमुक्तम्, इदानीं जघन्योत्कृष्टो भयावगाहनाविषयमल्पबहुत्वमाह - 'एएसि णमित्यादि, सर्वस्तोका औदारिकशरीरस्य जघन्यावगाहना, अङ्गुलासङ्ख्येयभागमात्रप्रमाणत्वात् तैजसकार्मणयोर्जघन्यावगाहना द्वयोरपि परस्परं तुल्या, औदारिकजघन्यावगाहनातो विशेषाधिका, कथमिति चेत्, उच्यते, इह मारणान्तिकसमुद्घातेन समवहतस्य पूर्वशरीरात् यद्वहिर्विनिर्गतं तैजसशरीरं तस्यायामबाहल्यविस्तारैरवगाहना चिन्त्यते इत्युक्तं प्राक्, तत्र यस्मिन् प्रदेशे उत्पत्स्यन्ते सोऽपि प्रदेश औदारिकशरीरावगाहनाप्रमितोऽझुलासङ्ख्येयभागप्रमाणो व्याप्तो यदप्यपान्तरालमतिस्तोकं तदपि व्याप्तमित्यौदारिकजघन्यावगाहनातो विशेषाधिका, ततोऽपि वैक्रियशरीरस्य जघन्यावगाहना असङ्ख्येयगुणा, अङ्गुलासङ्ख्येयभागस्यासङ्ख्ये य भेदभिन्नत्वात्, ततोऽप्याहारकशरीरस्य जघन्यावगाहनाऽसङ्ख्येयगुणा, देशोनहस्तप्रमाणत्वात् उत्कृष्टावगाहनाचिन्तायां सर्वस्तोका | आहार कशरीरस्योत्कृष्टाऽवगाहना, हस्तमात्रत्वात्, ततोऽप्यौदारिकशरीरस्य उत्कृष्टावगाहना सङ्ख्येयगुणा, सातिरे Jain Education International For Personal & Private Use Only २१ शरीरपदं सु. २७८ ॥४३४॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy