________________
900999999999900
कर्तर्ययं प्रयोगः, स्वयं चयनमागच्छन्तीत्यर्थः, भगवानाह–निर्व्याघातेन-व्याघातस्याभावो निर्व्याघातमव्ययी| भावः तेन वा तृतीयाया' इति विकल्पनाम्विधानान्नात्राम्भावः 'छद्दिसिं'ति षड्भ्यो दिग्भ्यः, किमुक्तं भवति ?यत्र त्रसनाड्या मध्ये बहिर्वा व्यवस्थितस्यौदारिकशरीरिणो नैकापि दिग् अलोकेन व्याहता वर्तते तत्र निर्व्याघाते व्यवस्थितस्य नियमात् षड्भ्यो दिग्भ्यः पुद्गलानामागमनं, व्याघातं-अलोकेन प्रतिस्खलनं प्रतीत्य 'सिय |तिदिसिं'ति स्यात्-कदाचित्तिसृभ्यो दिग्भ्यः स्याच्चतसृभ्यः स्यात् पञ्चभ्यः, कथमिति चेत्, उच्यते, सूक्ष्मजीवस्यौदारिकशरीरिणो यत्रो लोकाकाशं न विद्यते नापि तिर्यक पूर्वदिशि नापि दक्षिणदिशि तस्मिन् सर्वोर्वप्रतरे आग्नेयकोणरूपे लोकान्ते व्यवस्थितस्याधः पश्चिमोत्तररूपाभ्यस्तिसभ्यो दिग्भ्यः पुद्गलोपचयः शेषदिक्त्रयस्यालोकेन व्याप्तत्वात् , पुनः स एव सूक्ष्मजीव औदारिकशरीरी पश्चिमां दिशमनुसृत्य तिष्ठति तदा पूर्वदिगस्याधिका जातेति | चतसृभ्यो दिग्भ्यः पुद्गलानामागमनं, यदा पुनरधो द्वितीयादिप्रतरे गतः पश्चिमदिशमवलम्ब्य तिष्ठति तदा ऊर्द्धदिगप्यधिका लभ्यते केवला दक्षिणैव दिगलोकेन व्याहतेति पञ्चभ्यो दिग्भ्यः पुद्गलानामागमनं, वैक्रियशरीरमाहारकशरीरं च सनाड्या मध्य एव सम्भवति नान्यत्रेति तयोरपि पुद्गलचयो नियमात् षड्भ्यो दिग्भ्यः, तैजसकामणे सर्वसंसारिणां, ततो यथौदारिकस्य निर्व्याघातेन षड्भ्यो दिग्भ्यो व्याघातं प्रतीत्य पुनः स्यात् त्रिदिग्भ्यः स्याचतु| दिग्भ्यः स्यात् पञ्चदिग्भ्यः तथा तैजसकामणयोरपि द्रष्टव्यः, यथा चयस्तथा उपचयोऽपचयश्च वक्तव्यः, तत्र उप
Ge-992988888889929
dain Educat
For Personal & Private Use Only
jainelibrary.org