SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ २१ शरी प्रज्ञापना या: मलयवृत्ती. ॥४३२॥ चयः-प्राभूत्येन चयः अपचयो-हासः शरीरेभ्यः पुद्गलानां विचटनमितियावत् । उक्तं पुद्गलचयनमिदानीं शरी-1 रसंयोगमाह-'जस्स णं भंते !' इत्यादि, यस्यौदारिकं तस्य वैक्रियं स्यादस्ति स्यान्नास्ति, य औदारिकशरीरी सन् | वैक्रियलब्धिमान् वैक्रियमारभ्य तत्र वर्तते तस्यास्ति शेषस्य नास्तीति भावः, यस्य वैक्रियशरीरं तस्यौदारिकशरीरं स्यादस्ति स्यान्नास्ति, देवनारकाणां वैक्रियशरीरवतामौदारिकशरीरं नास्ति तिर्यग्मनुष्याणां तु वैक्रियशरीरवतामस्तीति भावार्थः, आहारकशरीरेणापि सह चिन्तायां यस्यौदारिकशरीरं तस्याहारकशरीरं स्यादस्ति स्यान्नास्ति, य औदारिकशरीरी चतुर्दशपूर्वधर आहारकलब्धिमान् आहारकशरीरमारभ्य वर्तते तस्यास्ति शेषस्य नास्तीत्यर्थः, यस पुनराहारकशरीरं तस्यौदारिकशरीरं नियमादस्ति, औदारिकशरीरविरहे आहारकलब्धेरप्यसम्भवात् , तैजसशरीरेण | सह चिन्तायां यस्यौदारिकशरीरं तस्य नियमात्तैजसशरीरं, तैजसशरीरविरहे औदारिकशरीरासम्भवात् , यस्य पुनस्तैजसशरीरं तस्यौदारिकं स्यादस्ति स्थानास्ति, देवनैरयिकाणां नास्ति तिर्यग्मनुष्याणामस्तीति भावः, एवं कार्मणशरीरेणापि सह चिन्ता कर्त्तव्या, तैजसकामणयोः सहचारित्वात् , सम्प्रति वैक्रियशरीरस्याहारकशरीरादिभिः सह संयोगचिन्तां कुर्वन्नाह जस्स णं भंते !' इत्यादि, यस्य वैक्रियशरीरं न तस्याहारकशरीरं यस्याहारकशरीरं न | तस्य वैक्रियशरीरं, समकालमनयोरेकस्यासम्भवात् , तैजसकामणे यथौदारिकशरीरेण सह चिन्तिते तथा वैक्रियशरीरेणापि सह चिन्तयितव्ये, आहारकशरीरेणापि सह तथैव, तैजसकामणयोस्तु परस्परमविनाभावित्वात् यस्य 9-992989-900902 ॥४३ २॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy