SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ जलावगाहं कुर्वतां खभवायुःक्षयात् तत्रैव खप्रत्यासन्ने देशे मत्स्यतयोत्पद्यन्ते तदा अङ्गुलासङ्ख्येयभागप्रमाणा द्रष्टव्या, अथवा पूर्वसम्बन्धिनी मनुष्यस्त्रियं मनुष्येणोपभुक्तामुपलभ्य गाढानुरागादिहागत्य परिष्वजते परिष्वज्य च तदवाच्यप्रदेशे खावाच्यं प्रक्षिप्य कालं कृत्वा तस्या एव गर्ने पुरुषबीजे समुत्पद्यते तदा लभ्यते, उत्कर्षतोऽधः पातालक-1 लशानां लक्षयोजनप्रमाणावगाहानां द्वितीयत्रिभागं यावत् तिर्यग् यावत् स्वयम्भूरमणसमुद्रपर्यन्त ऊर्द्ध यावदच्युतकल्पस्तावदवगन्तव्या, कथमिति चेत्, उच्यते, इह सनत्कुमारादिदेवानामन्यदेवनिश्रया अच्युतकल्पं यावद् गमनं भवति, न च तत्र वाप्यादिषु मत्स्यादयः सन्ति तत इह तिर्यग्मनुष्येषूत्पत्तव्यं, तत्र यदा सनत्कुमारदेवोऽन्यदेवनिश्रया अच्युतकल्पं गतो भवति तत्र च गतः सन् खायुःक्षयात्कालं कृत्वा तिर्यक स्वयंभूरमणपर्यन्ते यदिवाऽधः पातालकलशानां द्वितीयत्रिभागे वायूदकयोरुत्सरणापसरणभाविनि मत्स्यादितयोत्पद्यते तदा भवति तस्य तिर्यगधो वा यथोक्तक्रमेण तैजसशरीरावगाहनेति, 'एवं जाव सहस्सारदेवस्स'त्ति एवं-सनत्कुमारदेवगतेन प्रकारेण जघन्यत उत्कर्षतश्च तैजसशरीरावगाहना तावद्वाच्या यावत्सहस्रारदेवेभ्यः, भावना[ऽपि] सर्वत्रापि समाना, आनतदेवस्थापि जघन्यतोऽङ्गुलासङ्ख्येयभागप्रमाणा तैजसशरीरावगाहना, नन्वानतादयो देवा मनुष्येष्वेवोत्पद्यन्ते मनुष्याश्च मनुष्यक्षेत्र एवेति कथमङ्गुलासङ्ख्येयभागप्रमाणा ?, उच्यते, इह पूर्वसम्बन्धिनी मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्तामानतदेवः कश्चनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतखभावत्वात् सत्त्वचरितवैचित्र्यात् कर्मगतेरचिन्त्य Jain Education Intemarora For Personal & Private Use Only Sonial.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy