SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मलय० वृत्तौ . ॥४२९ ॥ खाभरणेष्वङ्गदादिषु कुण्डलादिषु वा ये मणयः पद्मरागादयस्तेषु गृद्धा मूच्छितास्तदध्यवसायिनस्तेष्वेव शरीरस्थेष्वा भरणादिषु पृथिवीकायिकत्वेनोत्पद्यन्ते तदा भवति जघन्यतोऽङ्गुलासङ्ख्येय भागप्रमाणा तैजसशरीरावगाहना, अन्ये त्वन्यथाऽत्र भावनिकां कुर्वन्ति, सा च नातिश्लिष्टेति न लिखिता न च दूषिता, 'कुमार्ग न हि तित्यक्षुः पुनस्तमनुधावती'ति न्यायानुसरणात् उत्कर्षतो यावदधस्तृतीयस्याः पृथिव्या अधस्तनश्चरमान्तः तिर्यक्र यावत्स्वयम्भूरमणसमुद्रस्य बाह्यो वेदिकान्त ऊर्द्ध यावत् ईषत्प्राग्भारा पृथिवी तावत् द्रष्टव्या, कथमिति चेत्, उच्यते, यदा भवनपत्यादिको देवस्तृतीयस्याः पृथिव्या अधस्तनं चरमान्तं यावत् कुतश्चित्प्रयोजनवशाद् गतो भवति, तत्र च गतः सन् कथमपि स्वायुः क्षयान्मृत्वा तिर्यक् स्वयम्भूरमणसमुद्रवाह्मवेदिकान्ते यदिवा ईषत्प्राग्भाराभिधपृथिवीपर्यन्ते | पृथिवीकायिकतयोत्पद्यते तदा भवत्युत्कर्षतो यथोक्ता तथा तैजसशरीरावगाहना, सनत्कुमारदेवस्यापि जघन्यतोऽमुलासङ्ख्येयभागप्रमाणा तैजसशरीरावगाहना, कथमिति चेत्, उच्यते, इह सनत्कुमारादय एकेन्द्रियेषु विकलेन्द्रियेषु वा नोत्पद्यन्ते, तथा भवखाभाव्यात्, किन्तु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु वा ततो यदा मन्दरादिपुष्करिण्यादिषु १ इह तु पूज्याः खल्वेवं भावार्थ अभिवर्णयति यथोपपात देशागतजीवप्रदेशापेक्षया एतदुच्यते, कुतः ?, मणेः तदुपपातक्षेत्रस्य वा तच्छरीरविष्कंभ बाहल्या योगात्, तच्च तत्र गतोऽपि तत्र संघातमधिकृत्य तदाहारकः तदा भवति तदाविष्कंभबाहल्यं चोपसंहृत्य सर्वात्मना तत्र प्रतिष्ठो भवतीति, अयं च स्वाभरणादावुत्पद्यमान एव द्रष्टव्य इति ॥ ( श्रीहरि० वृत्तौ ) Jain Education International For Personal & Private Use Only | २१ शरी रपदं ॥४२९॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy