SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ nearenesO0999 द्घातसमवहतस्य जघन्या तैजसशरीरावगाहना, उत्कर्षतो यावदधः सप्तमपृथिवी तिर्यक् यावत्खयम्भूरमणसमुद्रपर्यन्त ऊ यावत्पण्डकवने पुष्करिण्यस्तावद् द्रष्टव्या, किमुक्तं भवति ?-अधः सप्तमपृथिव्या आरभ्य तिर्यग् यावत् || खयम्भूरमणपर्यन्त ऊर्दू यावत् पण्डकवनपुष्करिण्यस्तावत्प्रमाणा, एतावती च तदा लभ्यते यदाऽधः सप्तमपृथि-18 वीनारकः स्वयम्भूरमणसमुद्रपर्यन्ते मत्स्यतयोत्पद्यते पण्डकवने पुष्करिणीषु चेति, तिर्यपञ्चेन्द्रियस्योत्कर्षतस्तिर्यग्लोकालोकान्तोऽत्रापि भावना द्वीन्द्रियवत्कर्त्तव्या, तिर्यकपञ्चेन्द्रियस्यैकेन्द्रियेपूत्पादसम्भवात् । मनुष्यस्योत्कर्षतः | समयक्षेत्रात् , समयप्रधानं क्षेत्रं समयक्षेत्रं मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, यस्मिन् अर्द्धतृतीयद्वीपप्रमाणे सूर्यादिक्रियाव्यङ्ग्यः समयो नाम कालद्रव्यमस्ति तत्समयक्षेत्रं मानुषक्षेत्रमिति भावस्तस्मात् , यावदध ऊर्दू वा लोकान्तस्तावत्प्रमाणा, मनुष्यस्याप्येकेन्द्रियेपूत्पादसम्भवात् , समयक्षेत्रग्रहणं समयक्षेत्रादन्यत्र मनुष्यजन्मनः संहरणस्य चासम्भवेनातिरिक्ताया अवगाहनाया असम्भवात् । असुरकुमारादिस्तनितकुमारपर्यवसानभवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां जघन्यतोऽङ्गुलासङ्ख्येयभागः, कथमिति चेत् , उच्यते, एते धेकेन्द्रियेपूत्पद्यन्ते ततो यदा ते १ णेरइयाणं आयामेणं जहन्नेणं सातिरेगं जोयणसहस्सं, कहं ? नरकादुद्धत्य पातालकुड्यं भिदेत्ता मच्छेसु पातालाओ वा मच्छस्स नरगेसु उववजमाणस्स, अन्ये तु व्याचक्षते नरकाणां योजनसहस्रं, कथं ?, सीमन्तको नाम नरकः सर्वोपरिवर्ती वज्रमयो योजनसहस्रबाहुल्यकुड्य इतो योजनसहस्रमवगाह्य तत्र ये नारका मत्स्या भवितुकामास्ते तदासन्नं समुद्घातं गतास्तत्र सहस्रं लभंते ॥ (श्रीहरि०वृत्तौ) Jain Education Me na For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy