________________
प्रज्ञापना
या: मल
य० वृत्तौ .
॥४२८॥
कायोऽपि द्वीन्द्रियो यदा खप्रत्यासन्नदेशे एकेन्द्रियतयोत्पद्यते तदाप्यङ्गुलासङ्ख्येयभागप्रमाणा वेदितव्या, उत्कर्षतस्तिर्यग्लोकालोकान्तः, किमुक्तं भवति ? - तिर्यग्लोकादधोलोकान्तो ऊर्द्धलोकान्तो वा यावता भवति तावत्प्रमाणा इत्यर्थः, कथमेतावत्प्रमाणेति चेत्, उच्यते, इह द्वीन्द्रिया एकेन्द्रियेष्वप्युत्पद्यन्ते, एकेन्द्रियाश्च सकललोकव्यापिनः, ततो यदा तिर्यग्लोकस्थितो द्वीन्द्रिय ऊर्द्धलोकान्ते अधोलोकान्ते वा एकेन्द्रियतया समुत्पद्यते तदा भवति तस्य मारणान्तिकसमुद्घातसमवहतस्य यथोक्तप्रमाणा तैजसशरीरावगाहना, तिर्यग्लोकग्रहणं च प्रायस्तेषां तिर्यग्लोकः | स्वस्थानमिति कृतमन्यथा अधोलोकैकदेशेऽप्यधो लौकिकग्रामादौ ऊर्द्धलोकैकदेशेऽपि पण्डकवनादौ द्वीन्द्रियः सम्भवतीति तदपेक्षयाऽतिरिक्ताऽपि तैजसशरीरावगाहना द्रष्टव्या एवं त्रिचतुरिन्द्रियसूत्रे अपि भावनीये । नैरयिकसूत्रे आयामेन जघन्यतो यत्सातिरेकं योजनसहस्रमुक्तं तदेवं परिभावनीयम् - इह वलयामुखादयश्चत्वारः पातालकलशाः लक्षयोजनावगाहा योजनसह स्रवा हल्य ठिक्करिकाः, तेषामधस्त्रिभागो वायुपरिपूर्ण उपरितनस्त्रिभाग उदकपरिपूर्णा मध्यस्त्रिभागो वायूदकयोरुत्सरणापसरणधर्मा, तत्र यदा कश्चित्सीमन्तकादिषु नरकेन्द्रकेषु वर्त्तमानो नैरयिकः | पातालकलशप्रत्यासन्नवर्त्ती च वायुःक्षयादुद्धृत्य पातालकलशकुड्यं योजनसहस्रबाहल्यं भित्त्वा पातालकलशमध्ये द्वितीये तृतीये वा त्रिभागे मत्स्य तयोत्पद्यते तदा भवति सातिरेकयोजनसहस्रमाना नैरयिकस्य मारणान्तिकसमु
Jain Education International
For Personal & Private Use Only
२१ शरीरपदं
॥४२८॥
www.jainelibrary.org