________________
420209080020009002020
| लोकान्तात् लोकान्तः, किमुक्तं भवति ?-अधोलोकान्तादारभ्य यावदूर्द्धलोकान्त ऊर्द्धलोकान्तादारभ्य यावदधोलोकान्तस्तावत्प्रमाण इति, इयं च सूक्ष्मस्य बादरस्य वा एकेन्द्रियस्य वेदितव्या, न शेषस्थासम्भवात्, एकेन्द्रिया हि सूक्ष्मा बादराश्च यथायोगं समस्तेऽपि लोके वर्तन्ते न शेषास्ततो यदा सूक्ष्मो बादरो वा एकेन्द्रियोऽधोलोके वर्तमान ऊर्द्धलोकान्ते सूक्ष्मतया बादरतया वोत्पत्तुमिच्छति ऊर्द्धलोकान्ते वा वर्तमानः सूक्ष्मो बादरो वा अधोलोकान्ते सूक्ष्मतया बादरतया वोत्पत्स्यते तदा तस्य मारणान्तिकसमुद्घातेन समवहतस्य यथोक्तप्रमाणा तैजसशरीरावगाहना भवति, एतेन पृथिव्यप्तेजोवायुवनस्पतिसूत्राण्यपि भावितानिद्रष्टव्यानि, तथाहि-सूक्ष्मपृथिवीकायि| कोऽधोलोके ऊर्द्धलोके वा वर्तमानो यदा सूक्ष्मपृथिवीकायिकादितया बादरवायुकायिकतया वा ऊर्द्वलोके अधोलोके वा समुत्पत्तुमिच्छति तदा भवति तस्य मारणान्तिकसमुदघातेन समवहतस्योत्कर्षतो लोकान्तात् लोकान्तं | यावत् तैजसशरीरावगाहना, एवमप्कायिकादिष्वपि भाव्यं, द्वीन्द्रियसूत्रे आयामेन जघन्यतोऽङ्गुलासङ्ख्ययभागप्रमाणा यदा अपर्याप्तो द्वीन्द्रियोऽङ्गुलासङ्ख्येयभागप्रमाणौदारिकशरीरः खप्रत्यासन्नप्रदेशे एकेन्द्रियादितयोत्पद्यते तदा अवसेया, अथवा यस्मिन् शरीरे स्थितः सन् मारणान्तिकसमुदघातं करोति तस्मात् शरीरात् मारणान्तिकसमुद्घातवशात् बहिर्विनिर्गततैजसशरीरस्यायामविष्कम्भविस्तारैरवगाहना चिन्त्यते न तत् शरीरसहितस्य, अन्यथा भवनपयादेर्यजघन्यतोऽङ्गुलासङ्ख्येयभागत्वं वक्ष्यते तद्विरुध्येत, भवनपत्यादिशरीराणां सप्तादिहस्तप्रमाणत्वात् , ततो महा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org