________________
प्रज्ञापना-1दियतेयगसरीरे किं पजत्तगरयणप्पभेत्यादि, पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां च यथा प्रागौदारिकशरीरभेद ४२१शरीर. याः मल- उक्तस्तथा अत्रापि वक्तव्यः, स चैवम्-'तिरिक्खजोणियपंचिंदियतेयगसरीरे णं भंते ! कइविहे पण्णत्ते?' इत्यादि, ४पर्द य० वृत्ती.
देवानां यथा वैक्रियशरीरभेद उक्तस्तथा भणितव्यः, स चैवम्-'जइ देवपंचिंदियतेयगसरीरे किं भवणवासिदेवपं॥४२७॥
चिंतेयगसरीरे' इत्यादि, यावत्सर्वार्थसिद्धदेवसूत्रं । उक्तो भेदः, सम्प्रति संस्थानप्रतिपादनार्थमाह-'तेयगसरीरे णं भंते ! किंसंठिए पं०?' इत्यादि, सुगम, इह जीवप्रदेशानुरोधि तैजसं शरीरं ततो यदेव तस्यां २ योनावौदारिकशरीरानुरोधेन वैक्रियशरीरानुरोधेन च जीवप्रदेशानां संस्थानं तदेव तैजसशरीरस्यापि इति प्रागुक्तमेकद्वित्रिचतुरिन्द्रियतिर्यक्रपञ्चेन्द्रियमनुष्यगतमौदारिकसंस्थानं नैरयिकदेवेषु वैक्रियसंस्थानमतिदिष्टमिति । गतं संस्थानमधुना अवगाहनामानमाह-'जीवस्स णं भंते !' इत्यादि, जीवस्य नैरयिकत्वादिविशेषणाविवक्षायां सामान्यतः संसारिणो| णमिति वाक्यालङ्कारे मारणान्तिकसमुद्घातेन वक्ष्यमाणलक्षणेन समवहतस्य सतः 'केमहालिया' इति किंमहती किंप्रमाणमहत्वा शरीरावगाहना?, शरीरमौदारिकादिकमप्यस्ति तत आह-तैजसशरीरस्य, प्रज्ञप्ता ?, भगवानाहशरीरप्रमाणमात्रा विष्कम्भवाहल्येन, विष्कम्भश्च बाहल्यं च विष्कम्भवाहल्यं समाहारो द्वन्द्वरतेन, विष्कम्भेन बाहल्येन चेत्यर्थः, तत्र विष्कम्भ उदरादिविस्तारः वाहल्यमुरःपृष्ठस्थूलता आयामो दैर्ध्य, तत्रायामेन जघन्यतोऽङ्गुल-13 स्थासङ्ख्येयभागः-अङ्गुलासङ्ख्येयभागप्रमाणा, इयं च एकेन्द्रियस्यैकेन्द्रियेष्वत्यासन्नमुत्पद्यमानस्य द्रष्टव्या, उत्कर्षतो
29202090220292020
॥४२७॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org