________________
चरपञ्चेन्द्रियतैर्यगूयोनिकभेदानुपदिदर्शयिपुरिदमाह-'से किंतं उरपरिसप्प' इत्यादि, अथ के ते उरःपरिसर्पस्थलचरपञ्चे|न्द्रियतैर्यग्योनिकाः?, सूरिराह-उरःपरिसर्पस्थलचरपञ्चेन्द्रियतैर्यगूयोनिकाश्चतुर्विधाःप्रज्ञप्ताः, तद्यथा-अहयोऽजगरा आसालिगा महोरगाः॥ एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसूत्राण्याह-से किं तं' इत्यादि, अथ के तेऽहयः ?, गुरुराह-अहयो द्विविधाः प्रज्ञप्ताः, तद्यथा-दीकराश्च मुकुलिनश्च, तत्र दीवदी-फणा तत्करणशीला दीकराः, मुकुलं-फणाविरहयोग्या शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिनः, फणाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दौ खगतानेकभेदसूचकौ। तत्र दीकरभेदानभिधित्सुराह-से किं तं' इत्यादि, आश्यो-दंष्ट्राः तासु विषं येषां ते आशीविषाः, उक्तं च-"आसी दाढा तग्गयविसा य आसीविसा मुणेयवा" इति, दृष्टौ विष येषां ते दृष्टिविषाः उग्रं विषं येषां ते उपविषाः भोगः-शरीरं तत्र विषं येषां ते भोगविषाः त्वचि विषं येषां ते| त्वगृविषाः प्राकृतत्वाच 'तयाविसा' इति पाठः लाला-मुखात् स्रावः तत्र विषं येषां ते लालाविषाः निःश्वासे विषं येषां ते निःश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रतिपत्तव्याः, उपसंहारमाह-'सेत्तं दधीकरा' । मुकुलिनः प्रतिपिपादयिपुरिदमाह-से किं तं' इत्यादि, एतेऽपि लोकतोऽवसेयाः। अजगराणामवान्तरजातिभेदा न विद्यन्ते तत उक्तम्-एकाकारा अजगराः प्रज्ञप्ताः। आसालिगामभिधित्सुराह-से किं तं आसालिया' अथ का सा आसालिगा ?, एवं शिष्येण प्रश्ने कृते सति भगवान् आर्यश्यामो यदेव ग्रन्थान्तरेषु आसालिगाप्रतिपादकं गौ
dain Education
For Personal & Private Use Only
nomindinelibrary.org