________________
प्रज्ञापना
याः मलय० वृत्तौ.
॥ ४७ ॥
तमप्रश्नभगवन्निर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानतः पठति - 'कहि णं भंते!' इत्यादि, क्व 'णं' इति वाक्याल | ङ्कारे भदन्त ! - परमकल्याणयोगिन् ! आसालिगा संमूर्च्छति ?, एषा हि गर्भजा न भवति किन्तु संमूच्छिमैव तत उक्तं संमूर्च्छति, भगवानाह - 'गोयमा' इत्यादि, गौतम ! अन्तः- मध्ये मनुष्यक्षेत्रे - मनुष्यक्षेत्रस्य न वहिः, एतावता मनुष्यक्षेत्राद् वहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्त्वर्द्धतृतीयेषु द्वीपेषु अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः, समुदायः समासार्थः, तेषु, एतावता लवणसमुद्रे कालोदसमुद्रे वा न भवतीत्यावेदितमित्यर्थः 'निवाघाएणं ' इत्यादि, निर्व्याघातेन - व्याघातस्याभावो निर्व्याघातं तेन यदि पञ्चसु भरतेषु पञ्चसु ऐरवतेषु सुषमसुषमादिरूपो दुष्पमदुष्पमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसु कर्मभूमिषु संमूर्च्छति, व्याघातं प्रतीत्य, किमुक्तं भवति ? - यदि पञ्चसु भरतेषु पञ्चस्वैश्वतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायते इति प्रतिपादितम्, पञ्चदशसु कर्मभूमिषु पञ्चसु वा महाविदेहेषु न सर्वत्र संमूर्च्छति, किन्तु चक्रवर्तिस्कन्धावारेपु, वाशब्दः सर्वत्रापि विकल्पार्थो द्रष्टव्यः, बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु, माण्डलिकः - सामान्यराजाऽल्पर्द्धिकः, महामाण्डलिकः स एवानेकदेशाधिपतिः तत्स्कन्धावारेषु, 'गामनिवेसेसु' इत्यादि, ग्रसति बुद्धयादीन् गुणानिति ग्रामः, यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशकराणामिति ग्रामः, निगमः -प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल्ल
Jain Education International
For Personal & Private Use Only
१ प्रज्ञाप
नापदे परिसर्प.
(सू. ३५)
॥ ४७ ॥
www.jainelibrary.org